Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1678

1875 Mantra
Devata- इन्द्रः Rishi- वालखिल्यम् (आयुः काण्वः) Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
स꣢꣫मिन्द्रो꣣ रा꣡यो꣢ बृह꣣ती꣡र꣢धूनुत꣣ सं꣢ क्षो꣣णी꣢꣫ समु꣣ सू꣡र्य꣢म् । स꣢ꣳ शु꣣क्रा꣢सः꣣ शु꣡च꣢यः꣣ सं꣡ गवा꣢꣯शिरः꣣ सो꣢मा꣣ इ꣡न्द्र꣢ममन्दिषुः ॥१६७८॥

स꣢म् । इ꣡न्द्रः꣢꣯ । रा꣡यः꣢꣯ । बृ꣣हतीः꣢ । अ꣣धूनुत । स꣢म् । क्षो꣣णी꣡इति꣢ । सम् । उ꣣ । सू꣡र्य꣢꣯म् । सम् । शु꣣क्रा꣡सः꣢ । शु꣡च꣢꣯यः । सम् । ग꣡वा꣢꣯शिरः । गो । आ꣣शिरः । सो꣡माः꣢꣯ । इ꣡न्द्र꣢꣯म् । अ꣣मन्दिषुः ॥१६७८॥

Mantra without Swara
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । सꣳ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥

सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणीइति । सम् । उ । सूर्यम् । सम् । शुक्रासः । शुचयः । सम् । गवाशिरः । गो । आशिरः । सोमाः । इन्द्रम् । अमन्दिषुः ॥१६७८॥

Samveda - Mantra Number : 1678
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) जगदीश्वरः (बृहतीः) विस्तीर्णाः (रायः) सम्पदः(सम् अधूनुत) संधूनोति, संप्रेरयति, (क्षोणी) द्यावापृथिव्यौ(सम्) संधूनोति, संप्रेरयति (उ) किञ्च, (सूर्यम्) आदित्यम्(सम्) संधूनोति संप्रेरयति। (शुक्रासः) तेजस्विनः (शुचयः) पवित्राचरणाः जनाः (इन्द्रम्) जगदीश्वरम् (सम् अमन्दिषुः) संमोदयन्ति, अपि च (गवाशिरः) गोभिः तेजोभिः आशिरः परिपक्वाः (सोमाः) श्रद्धारसाः (इन्द्रम्) जगदीश्वरम् (सम् अमन्दिषुः) संमोदयन्ति ॥२॥
Essence
जगदीश्वरेणैव सर्वाः सम्पदोऽस्मभ्यं प्रदत्ताः सन्ति, स एव च सूर्यपवनद्यावापृथिव्यादिव्यवस्थां सञ्चालयतीति कृत्वा सर्वैः पवित्रान्तःकरणैः सद्भिः स श्रद्धयोपासनीयः ॥२॥
Subject
अथ परमात्मनो गुणकर्मस्वभावान् वर्णयति।