Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1677

1875 Mantra
Devata- इन्द्रः Rishi- वालखिल्यम् (आयुः काण्वः) Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣡स्ता꣢वि꣣ म꣡न्म꣢ पू꣣र्व्यं꣡ ब्रह्मेन्द्रा꣢꣯य वोचत । पू꣣र्वी꣢रृ꣣त꣡स्य꣢ बृह꣣ती꣡र꣢नूषत स्तो꣣तु꣢र्मे꣣धा꣡ अ꣢सृक्षत ॥१६७७॥

अ꣡स्ता꣢꣯वि । म꣡न्म꣢꣯ । पू꣣र्व्य꣢म् । ब्र꣡ह्म꣢꣯ । इ꣡न्द्रा꣢꣯य । वो꣣चत । पूर्वीः꣢ । ऋ꣣त꣡स्य꣢ । बृ꣣हतीः꣢ । अ꣣नूषत । स्तोतुः꣢ । मे꣣धाः꣢ । अ꣣सृक्षत ॥१६७७॥

Mantra without Swara
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥

अस्तावि । मन्म । पूर्व्यम् । ब्रह्म । इन्द्राय । वोचत । पूर्वीः । ऋतस्य । बृहतीः । अनूषत । स्तोतुः । मेधाः । असृक्षत ॥१६७७॥

Samveda - Mantra Number : 1677
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पूर्व्यम्) सनातनम् (मन्म) वेदस्तोत्रम्, मया (अस्तावि) प्रस्तुतमस्ति। हे सखायः ! यूयमपि (इन्द्राय) जगदीश्वराय(ब्रह्म) स्तोत्रम् (वोचत) शंसत। (ऋतस्य) सत्यस्य वेदस्य(पूर्वीः) श्रेष्ठाः (बृहतीः) बृहतीच्छन्दस्काः इमा ऋचः(अनूषत) इन्द्रं जगदीश्वरं स्तुवन्ति। (स्तोतुः) स्तुतिकर्तुः(मेधाः) धारणावत्यो बुद्धयः (असृक्षत) सृष्टा भवन्ति ॥१॥
Essence
सामगानेन परमेश्वरस्तुत्या स्तोतॄणामृतम्भराः प्रज्ञा उद्यन्ति ॥१॥
Subject
तत्रादौ परमात्मस्तवनाय प्रेरयति।