Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1676

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
इ꣣मे꣡ हि ते꣢꣯ ब्रह्म꣣कृ꣡तः꣢ सु꣣ते꣢꣫ सचा꣣ म꣢धौ꣣ न꣢꣫ मक्ष आ꣡स꣢ते । इ꣢न्द्रे꣣ का꣡मं꣢ जरि꣣ता꣡रो꣢ वसू꣣य꣢वो꣣ र꣢थे꣣ न꣢꣫ पाद꣣मा꣡ द꣢धुः ॥१६७६॥

इ꣣मे꣢ । हि । ते꣣ । ब्रह्मकृ꣡तः꣢ । ब्र꣣ह्म । कृ꣡तः꣢꣯ । सु꣣ते꣢ । स꣡चा꣢꣯ । म꣡धौ꣢꣯ । न । म꣡क्षः꣢꣯ । आ꣡स꣢꣯ते । इ꣡न्द्रे꣢꣯ । का꣡म꣢꣯म् । ज꣣रिता꣡रः꣢ । व꣣सूय꣡वः꣢ । र꣡थे꣢꣯ । न । पा꣡द꣢꣯म् । आ । द꣣धुः ॥१६७६॥

Mantra without Swara
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥

इमे । हि । ते । ब्रह्मकृतः । ब्रह्म । कृतः । सुते । सचा । मधौ । न । मक्षः । आसते । इन्द्रे । कामम् । जरितारः । वसूयवः । रथे । न । पादम् । आ । दधुः ॥१६७६॥

Samveda - Mantra Number : 1676
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जगदीश ! (इमे हि) एते खलु (ते) तुभ्यम् (ब्रह्मकृतः) स्तोत्रपाठकर्तारः उपासकाः (सुते) उपासनायज्ञे (सचा) संभूय (आसते) उपविशन्ति, (मधौ न मक्षः) मधुमक्षिका यथा मधुगोलके तिष्ठन्ति। (वसूयवः) अध्यात्मधनेच्छुकाः (जरितारः) स्तोतारः (इन्द्रे) परमैश्वर्यशालिनि जगदीश्वरे त्वयि (कामम्) अभिलाषम् (आदधुः) आदधति, (वसूयवः) भौतिकधनाभिलाषिणो जनाः (रथे न) रथे यथा (पादम्) चरणम् आदधति ॥२॥२ अत्रोपमालङ्कारः ॥२॥
Essence
मधुकृतो मधुमक्षिका यथा मधुगोलके तिष्ठन्ति तथैवोपासनाकर्तारो जना उपासनागृहे तिष्ठन्ति। यथा च भौतिकं धनधान्यादिकं स्थानान्तरादानेतुकामा जना रथे स्वपादं निदधति तथैव सत्याहिंसायोगैश्वर्यादिकामा जनाः परमात्मनि स्वकाममादधति ॥२॥
Subject
अथ परमात्मोपासनाविषयमाह।