Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1675

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
मो꣡ षु त्वा꣢꣯ वा꣣घ꣡त꣢श्च꣣ ना꣢꣫रे अ꣣स्म꣡न्नि री꣢꣯रमन् । आ꣣रा꣡त्ता꣢द्वा सध꣣मा꣡दं꣢ न꣣ आ꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡न्नु꣢꣯प श्रुधि ॥१६७५॥

मा꣢ । उ꣣ । सु꣢ । त्वा꣣ । वाघ꣡तः꣢ । च꣣ । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢न् । नि । री꣣रमन् । आरा꣡त्ता꣢त् । वा꣣ । सधमा꣡द꣢म् । स꣣ध । मा꣡द꣢꣯म् । नः꣣ । आ꣢ । ग꣣हि । इह꣢ । वा꣣ । स꣢न् । उ꣡प꣢꣯ । श्रु꣢धि ॥१६७५॥

Mantra without Swara
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥

मा । उ । सु । त्वा । वाघतः । च । न । आरे । अस्मन् । नि । रीरमन् । आरात्तात् । वा । सधमादम् । सध । मादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥१६७५॥

Samveda - Mantra Number : 1675
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ! हे मदीय मनः ! [मन एवेन्द्रः। श० १२।९।१।१३।] (वाघतः च न) आकर्षकाः अपि पदार्थाः (त्वा) त्वाम् (अस्मत् आरे) अस्माकं सकाशात् दूरम् (मा उ सु) नैव खलु(निरीरमन्) निरमयन्तु। (आरात्तात्) सुदूरदेशादपि (नः) अस्माकम् (सधमादम्) उपासनायज्ञम् (आ गहि) आगच्छ, (इह वा सन्) अत्रैव च विद्यमानः (उप श्रुधि) अस्मदादेशम् उपशृणु ॥१॥२
Essence
मनुष्यस्य मनो दूरात् सुदूरं धावति, नानासंकल्पविकल्पांश्च कुरुते। तस्यैषा चेष्टा परमात्मध्याने बाधिका जायते। अतोऽत्र दूरं गतं स्वकीयं मनः प्रत्याह्वयति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २८४ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र स्वकीयं मनः सम्बोधयति।