Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1674

1875 Mantra
Devata- विष्णुर्देवो वा Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡तो꣢ दे꣣वा꣡ अ꣢वन्तु नो꣣ य꣢तो꣣ वि꣡ष्णु꣢र्विचक्र꣣मे꣢ । पृ꣣थिव्या꣢꣫ अधि꣣ सा꣡न꣢वि ॥१६७४॥

अ꣡तः꣣ । दे꣣वाः꣢ । अ꣣वन्तु । नः । य꣡तः꣢꣯ । वि꣡ष्णुः꣢꣯ । वि꣣चक्रमे꣢ । वि꣣ । चक्रमे꣢ । पृ꣣थिव्याः꣢ । अ꣡धि꣢꣯ । सा꣡न꣢꣯वि ॥१६७४॥

Mantra without Swara
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्या अधि सानवि ॥

अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विचक्रमे । वि । चक्रमे । पृथिव्याः । अधि । सानवि ॥१६७४॥

Samveda - Mantra Number : 1674
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यतः) यस्मात् (विष्णुः) व्यापको जगदीश्वरः (पृथिव्याः) पार्थिवायाः तन्वाः (सानवि अधि) उच्चप्रदेशे मस्तिष्के(विचक्रमे) व्याप्तोऽस्ति, (अतः) अस्मादेव कारणात् (देवाः) विद्वांसो जनास्तत्कृपया मस्तिष्कात् ज्ञानं प्राप्य (नः) अस्मान्(अवन्तु) रक्षन्तु ॥६॥२
Essence
परमेश्वर एव शरीरस्य मस्तिष्कादिष्वङ्गेषु स्थितस्तैः सर्वं ज्ञानग्रहणादिकं कारयति ॥६॥
Subject
अथ जगदीश्वरस्य शरीरव्यापित्वमाह।