Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1673

1875 Mantra
Devata- विष्णुः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣡द्विप्रा꣢꣯सो विप꣣न्य꣡वो꣢ जागृ꣣वा꣢ꣳसः꣢ स꣡मि꣢न्धते । वि꣢ष्णो꣣र्य꣡त्प꣢र꣣मं꣢ प꣣द꣢म् ॥१६७३॥

त꣢त् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । विपन्य꣡वः꣢ । जा꣣गृवा꣡ꣳसः꣢ । सम् । इ꣣न्धते । वि꣡ष्णोः꣢꣯ । यत् । प꣣रम꣢म् । प꣣द꣢म् ॥१६७३॥

Mantra without Swara
तद्विप्रासो विपन्यवो जागृवाꣳसः समिन्धते । विष्णोर्यत्परमं पदम् ॥

तत् । विप्रासः । वि । प्रासः । विपन्यवः । जागृवाꣳसः । सम् । इन्धते । विष्णोः । यत् । परमम् । पदम् ॥१६७३॥

Samveda - Mantra Number : 1673
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विपन्यवः) विविधं जगदीश्वरस्य गुणान् पनायन्ति स्तुवन्ति ये ते।[पण व्यवहारे स्तुतौ च, पन च। बाहुलकादौणादिको युच् प्रत्ययः।] (जागृवांसः) जागरूकाः। [अत्र जागर्तेर्लिटः स्थाने क्वसुः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्। अ० ६।१।६ अनेन द्विर्वचनाभावश्च।] (विप्रासः) विपश्चितो जनाः (यत् विष्णोः) सर्वव्यापकस्य परमेश्वरस्य (परमम्) सर्वोत्कृष्टम् (पदम्) प्राप्तव्यं स्वरूपम् अस्ति (तत् समिन्धते) स्वान्तरात्मनि सम्यक् प्रकाशयन्ते ॥५॥२
Essence
ये मनुष्या अविद्यालस्याऽधर्माचरणाख्यां निद्रां विहाय विद्याधर्मयोगाभ्यासादिचरणे जागरूकाः सन्ति त एव सच्चिदानन्दस्वरूपं सर्वोत्तमं सर्वव्यापिनं सर्वैः प्राप्तुमर्हं जगदीश्वरं प्राप्तुं शक्नुवन्ति ॥५॥
Subject
अथ पुनः स एव विषय उच्यते।