Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1671

1875 Mantra
Devata- विष्णुः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वि꣢ष्णोः꣣ क꣡र्मा꣢णि पश्यत꣣ य꣡तो꣢ व्र꣣ता꣡नि꣢ पस्प꣣शे꣢ । इ꣡न्द्र꣢स्य꣣ यु꣢ज्यः꣣ स꣡खा꣢ ॥१६७१॥

वि꣡ष्णोः꣢꣯ । क꣡र्मा꣢꣯णि । प꣣श्यत । य꣡तः꣢꣯ । व्र꣣ता꣡नि꣢ । प꣣स्पशे । इ꣡न्द्र꣢꣯स्य । यु꣡ज्यः꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ ॥१६७१॥

Mantra without Swara
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥

विष्णोः । कर्माणि । पश्यत । यतः । व्रतानि । पस्पशे । इन्द्रस्य । युज्यः । सखा । स । खा ॥१६७१॥

Samveda - Mantra Number : 1671
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विष्णोः) सर्वान्तर्यामिनो जगदीश्वरस्य (कर्माणि) जगत्प्रपञ्चसर्जनव्यवस्थापनादीनि कर्माणि, (पश्यत)अवलोकयत, (यतः) यस्मात् कारणात् स तानि कर्तुम्(व्रतानि) संकल्पान् (पस्पशे२) स्पृष्टवान्, गृहीतवान् अस्ति। स जगत्पतिः (इन्द्रस्य) जीवात्मनः (युज्यः) सहयोगी (सखा) सुहृत्, वर्तते इति शेषः ॥३॥३
Essence
यथा व्रती जगदीश्वरो जगत्यस्मिन् महान्ति कर्माणि करोति तथैव तत्सखा जीवोऽपि तस्माद् बलं प्राप्य बहुकार्यक्षमो जायते ॥३॥
Subject
अथ परमेश्वरस्य महत्त्वं वर्णयति।