Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1670

1875 Mantra
Devata- विष्णुः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्री꣡णि꣢ प꣣दा꣡ वि च꣢꣯क्रमे꣣ वि꣡ष्णु꣢र्गो꣣पा꣡ अदा꣢꣯भ्यः । अ꣢तो꣣ ध꣡र्मा꣢णि धा꣣र꣡य꣢न् ॥१६७०॥

त्री꣡णि꣢꣯ । प꣣दा꣢ । वि । च꣣क्रमे । वि꣡ष्णुः꣢꣯ । गो꣣पाः꣢ । गो꣣ । पाः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । अ꣡तः꣢꣯ । ध꣡र्मा꣢꣯णि । धा꣣र꣡य꣢न् ॥१६७०॥

Mantra without Swara
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥

त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । गो । पाः । अदाभ्यः । अ । दाभ्यः । अतः । धर्माणि । धारयन् ॥१६७०॥

Samveda - Mantra Number : 1670
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गोपाः) रक्षकः, (अदाभ्यः) केनापि हिंसितुं पराजेतुम् अपमानयितुं वाऽशक्यः (विष्णुः) सर्वान्तर्यामी जगदीश्वरः(त्रीणि पदा) त्रीण्यपि पदानि, प्रकृतिं जगत्प्रपञ्चं जीवात्मसमूहं च (वि चक्रमे) व्याप्तवानस्ति। (अतः) अस्मादेव कारणात्, सः(धर्माणि) सर्वेषु पदार्थेषु तेषां धर्मान् गुणकर्मस्वभावान्(धारयन्) व्यवस्थापयन्, वर्तते इति शेषः ॥२॥२
Essence
यः परमात्मा ब्रह्माण्डस्य सर्वेषु पदार्थेषु व्याप्तोऽस्ति स एव तेषां धारकोऽपि वर्तते ॥२॥
Subject
अथ पुनरपि परमेश्वरविषय उच्यते।