Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 167

1875 Mantra
Devata- इन्द्रः Rishi- कुसीदी काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ तू न꣢꣯ इन्द्र क्षु꣣म꣡न्तं꣢ चि꣣त्रं꣢ ग्रा꣣भ꣡ꣳ सं गृ꣢꣯भाय । म꣣हाहस्ती꣡ दक्षि꣢꣯णेन ॥१६७॥

आ꣢ । तु । नः꣢ । इन्द्र । क्षुम꣡न्त꣢म् । चि꣣त्र꣢म् । ग्रा꣣भ꣢म् । सम् । गृ꣣भाय । महाहस्ती꣢ । म꣣हा । हस्ती꣢ । द꣡क्षि꣢꣯णेन ॥१६७॥

Mantra without Swara
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभꣳ सं गृभाय । महाहस्ती दक्षिणेन ॥

आ । तु । नः । इन्द्र । क्षुमन्तम् । चित्रम् । ग्राभम् । सम् । गृभाय । महाहस्ती । महा । हस्ती । दक्षिणेन ॥१६७॥

Samveda - Mantra Number : 167
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—राजपरः। हे (इन्द्र) परमैश्वर्यशालिन् राजन् ! (महाहस्ती२) महाशुण्डो गज इव महाभुजः त्वम् (तु) क्षिप्रम् (दक्षिणेन) दक्षिणहस्तेन (नः) अस्मभ्यम् (क्षुमन्तम्३) प्रशस्तान्नयुक्तम्। क्षु इत्यन्ननाम। निघं० २।७। (चित्रम्४) अद्भुतम् (ग्राभम्५) ग्राह्यं धनम्। गृह्यते इति ग्राभः। हृग्रहोर्भश्छन्दसि इति वार्तिकेन हस्य भत्वम्। (आ) समन्तात् (सं गृभाय) सं गृहाण। ग्रह उपादाने धातोः छन्दसि शायजपि अ० ३।१।८४ इति श्नः शायजादेशः। हस्य भत्वम् ॥ अथ द्वितीयः—परमात्मपरः। हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! त्वम् (तु) क्षिप्रमेव (नः) अस्मभ्यं दातुम् (क्षुमन्तम्) भौतिकधनान्नादियुक्तम् (चित्रम्) अद्भुतम् (ग्राभम्) ग्राह्यम् अध्यात्मसंपद्रूपं धनम् (आ) समन्तात् (संगृभाय) संगृहाण, यथा (महाहस्ती) विशालभुजः कश्चिन्मनुष्यः (दक्षिणेन) दक्षिणहस्तेन वस्तूनि संगृह्णाति। यद्वा, यथा (महाहस्ती) महनीयकिरणः हिरण्यपाणिः सविता सूर्यः (दक्षिणेन) समृद्धेन स्वकिरणजालेन भूमिष्ठानि जलानि संगृह्णाति। यद्वा, यथा (महाहस्ती) महागजः (दक्षिणेन) बलवता स्वकीयेन शुण्डादण्डेन खाद्यपेयादीनि वस्तूनि संगृह्णाति ॥३॥ अत्र श्लेषालङ्कारः। महाहस्ती इति च लुप्तोपमम् ॥३॥
Essence
परमेश्वरो राष्ट्रस्य राजा च सर्वान् प्रजाजनान् पुरुषार्थिनो विधाय प्रभूतधनधान्यसम्पन्नान् विद्यावतो धार्मिकान् योगैश्वर्ययुक्ताँश्च विदधातु ॥३॥
Subject
अथ परमेश्वरो राजा च प्रार्थ्यते।
Footnote
१. ऋ० ८।८१।१, साम० ७२८। २. महाहस्ती। महाँश्चासौ हस्तश्च महाहस्तः। तस्मादिदं तृतीयैकवचनम्। महता हस्तेनेत्यर्थः—इति वि०। महान् हस्तो महाहस्तः। महाहस्तवान् त्वम्—इति भ०। ३. क्षुमन्तम्। क्षु शब्दे इत्येतस्येदं रूपम्। कीर्तिमन्तम्—इति वि०। कीर्तिमन्तं कीर्तिसहितम्—इति भ०। शब्दवन्तं स्तुत्यमित्यर्थः—इति सा०। ४. (चित्रम्) चक्रवर्तिराज्यश्रिया विद्यामणिसुवर्णहस्त्यश्वादि- योगेनाद्भुतम् इति ऋ० १।९।५ भाष्ये द०। ५. ग्राभं ग्राह्यं ग्रहणयोग्यम्, अभिसंस्कारैः संस्कृतमित्यर्थः।—इति वि०। ग्राभं धनम्। गृह्यते संगृह्यते सर्वैः इति ग्राहः—इति भ०। ग्राहकं ग्रहणार्हं वा धनम्—इति सा०।