Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1668

1875 Mantra
Devata- इन्द्रः Rishi- शंयुर्बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
कु꣣वि꣡त्स꣢स्य꣣ प्र꣢꣫ हि व्र꣣जं꣡ गोम꣢꣯न्तं दस्यु꣣हा꣡ गम꣢꣯त् । श꣡ची꣢भि꣣र꣡प꣢ नो वरत् ॥१६६८॥

कु꣣वि꣢त्सस्य । कु꣣वि꣢त् । स꣣स्य । प्र꣢ । हि । व्र꣡ज꣢म् । गो꣡म꣢꣯न्तम् । द꣣स्युहा꣢ । द꣣स्यु । हा꣢ । ग꣡म꣢꣯त् । श꣡ची꣢꣯भिः । अ꣡प꣢꣯ । नः꣣ । वरत् ॥१६६८॥

Mantra without Swara
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । शचीभिरप नो वरत् ॥

कुवित्सस्य । कुवित् । सस्य । प्र । हि । व्रजम् । गोमन्तम् । दस्युहा । दस्यु । हा । गमत् । शचीभिः । अप । नः । वरत् ॥१६६८॥

Samveda - Mantra Number : 1668
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। यः (दस्युहा) विघ्नहन्ता इन्द्रो जगदीश्वरः (कुवित्सस्य२) कुवित् बहु सनोति ददादीति तस्य बहुदानकर्तुर्मनुष्यस्य (गोमन्तं व्रजम्) प्रशस्तधेनुयुक्तां गोशालाम् अध्यात्मप्रकाशसमूहं वा (प्र गमत्) प्रगमयति प्रापयति, सः (शचीभिः) स्वकीयैः कर्मभिः (नः) अस्मभ्यमपि (अप वरत्) गवादिधनानाम् अध्यात्मप्रकाशानां वा द्वारम् उद्घाटयेत्। [कुवित्सस्य, कुवित्पूर्वात् षणु दाने धातोः कर्तरि डः प्रत्ययः, डित्त्वात् टिलोपः। गमत्, गम्लृ गतौ णिगर्भः] ॥ द्वितीयः—नृपतिपरः। (दस्युहा) दुष्टानां हन्ता इन्द्रो नृपतिः (कुवित्सस्य३) कुवित् बहु स्यति हिनस्ति यः स कुवित्सः तस्य गोघातकस्य दुर्जनस्य (गोमन्तं व्रजम्) धेनुयुक्तं गोगृहम् (प्र गमत् हि) प्रगच्छेत् खलु, अपि च (शचीभिः) स्वकीयाभिः सेनाभिः, तस्य गाः (नः) अस्मभ्यं धार्मिकेभ्यः (अप वरत्) अपाच्छिन्द्यात्। [कुवित्सः, कुवित्पूर्वात् षो अन्तकर्मणि इति धातोर्डः।] ॥३॥४
Essence
परमात्मा दातॄणामेव सहायको जायते। दुष्टानां गोघातकानामयमेव दण्डो यत्तेषां गा अपच्छिद्य धार्मिकेभ्यः सज्जनेभ्यस्ता उपायनीक्रियेरन् ॥३॥ अस्मिन् खण्डे ज्ञानरसस्य जगदीश्वरस्य जीवात्मनो नृपतेश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्ज्ञेया ॥
Subject
अथ परमात्मनो नृपतेश्च विषयमाह।