Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1666

1875 Mantra
Devata- इन्द्रः Rishi- शंयुर्बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣡द्वो꣢ गाय सु꣣ते꣡ सचा꣢꣯ पुरुहू꣣ता꣢य꣣ स꣡त्व꣢ने । शं꣢꣫ यद्गवे꣣ न꣢ शा꣣कि꣡ने꣢ ॥१६६६॥

त꣢त् । वः꣣ । गाय । सुते꣢ । स꣡चा꣢꣯ । पु꣣रुहूता꣡य꣢ । पु꣣रु । हूता꣡य꣢ । स꣡त्व꣢꣯ने । शम् । यत् । ग꣡वे꣢꣯ । न । शा꣣कि꣡ने꣢ ॥१६६६॥

Mantra without Swara
तद्वो गाय सुते सचा पुरुहूताय सत्वने । शं यद्गवे न शाकिने ॥

तत् । वः । गाय । सुते । सचा । पुरुहूताय । पुरु । हूताय । सत्वने । शम् । यत् । गवे । न । शाकिने ॥१६६६॥

Samveda - Mantra Number : 1666
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखे ! वः त्वम् [अत्र व्यत्ययेन प्रथमायामेकवचनस्य वसादेशः।] (सुते) श्रद्धारसेऽभिषुते सति (सचा) अन्यैः स्तोतृभिः सह मिलित्वा (पुरुहूताय) बहुभिराहूताय, (सत्वने) बलशालिने इन्द्राय परमात्मने (तत् गाय) तद् गीतं गानविषयीकुरु (यत्) गीतम् (शाकिने गवे न) घासभक्षिणे वृषभाय इव (शाकिने) शक्तिमते (गवे) स्तोत्रे तुभ्यम् (शम्) शान्तिदायकं भवेत् ॥१॥२ अत्र श्लिष्टोपमालङ्कारः ॥१॥
Essence
श्रद्धानिर्भरेण चेतसा यत् स्तुतिगीतं जगदीश्वरायोपह्रियते तत् स्तोत्रे महत् कल्याणकरं जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ११५ क्रमाङ्के परमात्मगानविषये व्याख्याता। अत्रापि तमेव विषयमाह।