Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1665

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ रे꣣वाँ꣡ इ꣢व वि꣣श्प꣢ति꣣र्दै꣡व्यः꣢ के꣣तुः꣡ शृ꣢णोतु नः । उ꣣क्थै꣢र꣣ग्नि꣢र्बृ꣣ह꣡द्भा꣢नुः ॥१६६५॥

सः꣢ । रे꣣वा꣢न् । इ꣣व । विश्प꣡तिः꣢ । दै꣡व्यः꣢꣯ । के꣡तुः꣢ । शृ꣣णोतु । नः । उक्थैः꣢ । अ꣣ग्निः꣢ । बृ꣣ह꣡द्भा꣢नुः । बृ꣣ह꣢त् । भा꣣नुः ॥१६६५॥

Mantra without Swara
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्बृहद्भानुः ॥

सः । रेवान् । इव । विश्पतिः । दैव्यः । केतुः । शृणोतु । नः । उक्थैः । अग्निः । बृहद्भानुः । बृहत् । भानुः ॥१६६५॥

Samveda - Mantra Number : 1665
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(रेवान् इव) महाधनाढ्यः इव। [अत्र रैशब्दान्मतुप्। ‘रयेर्मतौ बहुलम्’। अ० ६।१।३७ इति वार्तिकेन सम्प्रसारणम्। ‘छन्दसीरः’ अ० ८।२।१५ इति वत्वम्।] (विश्पतिः) प्रजापालकः, (दैव्यः) देवानां विदुषां हितकरः, (केतुः) प्रज्ञापकः, (बृहद्भानुः) महातेजाः (सः) प्रसिद्धः (अग्निः) जगन्नेता परमेश्वरः (उक्थैः) स्तोत्रैः (नः) अस्मान्, अस्मत्प्रार्थनावचांसीत्यर्थः (शृणोतु) आकर्णयतु, पूरयत्विति भावः ॥३॥२ अत्रोपमालङ्कारः ॥३॥
Essence
यथा कश्चित् प्रशस्तधनो मनुष्यः प्रजाः पालयन् विदुषः संमानयन् ज्ञानं तेजस्वितां च प्रसारयन् याचकानां वचांसि शृण्वन् सर्वेषां हितं करोति तथैव जगदीश्वरोऽपि। परमेतावान् विशेषो यत् परमेश्वरस्य तथाकरणे कश्चित् स्वार्थो नास्ति ॥३॥
Subject
अथ कीदृशः परमेश्वरः किं करोत्वित्याह।