Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1664

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ नो꣢ म꣣हा꣡ꣳ अ꣢निमा꣣नो꣢ धू꣣म꣡के꣢तुः पुरुश्च꣣न्द्रः꣢ । धि꣣ये꣡ वाजा꣢꣯य हिन्वतु ॥१६६४॥

सः꣢ । नः꣣ । महा꣢न् । अ꣣निमानः꣢ । अ꣣ । निमानः꣢ । धू꣣म꣡के꣢तुः । धू꣣म꣢ । के꣣तुः । पु꣣रुश्चन्द्रः । पु꣣रु । चन्द्रः꣢ । धि꣣ये꣢ । वा꣡जा꣢꣯य । हि꣡न्वतु ॥१६६४॥

Mantra without Swara
स नो महाꣳ अनिमानो धूमकेतुः पुरुश्चन्द्रः । धिये वाजाय हिन्वतु ॥

सः । नः । महान् । अनिमानः । अ । निमानः । धूमकेतुः । धूम । केतुः । पुरुश्चन्द्रः । पुरु । चन्द्रः । धिये । वाजाय । हिन्वतु ॥१६६४॥

Samveda - Mantra Number : 1664
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ प्रसिद्धः, (महान्) महागुणः (अनिमानः) देशेन कालेन च अपरिच्छिन्नः, (धूमकेतुः) दोधूयमान ओंकारध्वजः(पुरुश्चन्द्रः) बह्वाह्लादकः। [अत्र ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे’। अ० ६।१।१५१ अनेन सुडागमः।] (अग्निः) अग्रणीः परमेश्वरः(नः) अस्मान् (धिये) ज्ञानसम्पादनाय कर्मकरणाय च(वाजाय) बलसंचयाय च (हिन्वतु) प्रेरयतु ॥२॥२
Essence
सत्या परमात्मस्तुतिः सैव यया मनुष्यो ज्ञानार्जनाय बलसंचयाय पुरुषार्थाय च प्रेरणां प्राप्नोति ॥२॥
Subject
अथ परमात्मगुणान् वर्णयन् तं प्रार्थयते।