Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1663

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ज꣡रा꣢बोध꣣ त꣡द्वि꣢विड्ढि वि꣣शे꣡वि꣢शे य꣣ज्ञि꣡या꣢य । स्तो꣡म꣢ꣳ रु꣣द्रा꣡य꣢ दृशी꣣क꣢म् ॥१६६३॥

ज꣡रा꣢꣯बोध । ज꣡रा꣢꣯ । बो꣣ध । त꣢त् । वि꣣विड्ढि । विशे꣡वि꣢शे । वि꣣शे꣢ । वि꣣शे । यज्ञि꣡या꣢य । स्तो꣡म꣢꣯म् । रु꣢द्रा꣡य꣢ । दृ꣣शीक꣢म् ॥१६६३॥

Mantra without Swara
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । स्तोमꣳ रुद्राय दृशीकम् ॥

जराबोध । जरा । बोध । तत् । विविड्ढि । विशेविशे । विशे । विशे । यज्ञियाय । स्तोमम् । रुद्राय । दृशीकम् ॥१६६३॥

Samveda - Mantra Number : 1663
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (जराबोध) स्तुतिविज्ञ मानव ! [जरां स्तुतिप्रकारं बुध्यते जानातीति जराबोधः तथाविध।] त्वम् (विशे विशे) मनुष्याय मनुष्याय, प्रतिमनुष्यहितार्थमित्यर्थः। (यज्ञियाय) पूजनीयाय(रुद्राय) दुःखद्रावयित्रे परमात्मने (तत्) उज्ज्वलम् (दृशीकम्) रमणीयम् (स्तोमम्) स्तोत्रम्, गुणकीर्तनम् (विविड्ढि) कुरु।[‘तद् विविड्ढि तत् कुरु’ इति निरुक्तम् १०।८] ॥१॥२
Essence
सर्वैर्जनैर्जगदीश्वरस्य गुणगानं कृत्वा यथाशक्ति तद्गुणान् स्वात्मनि विधातुं प्रयतनीयम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १५ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्रापि स एव विषय उच्यते।