Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1662

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡रं꣢ त इन्द्र कु꣣क्ष꣢ये꣣ सो꣡मो꣢ भवतु वृत्रहन् । अ꣢रं꣣ धा꣡म꣢भ्य꣣ इ꣡न्द꣢वः ॥१६६२॥

अ꣡र꣢꣯म् । ते꣣ । इन्द्र । कु꣡क्षये꣢ । सो꣡मः꣢꣯ । भ꣣वतु । वृत्रहन् । वृत्र । हन् । अ꣡र꣢꣯म् । धा꣡म꣢꣯भ्यः । इ꣡न्द꣢꣯वः ॥१६६२॥

Mantra without Swara
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । अरं धामभ्य इन्दवः ॥

अरम् । ते । इन्द्र । कुक्षये । सोमः । भवतु । वृत्रहन् । वृत्र । हन् । अरम् । धामभ्यः । इन्दवः ॥१६६२॥

Samveda - Mantra Number : 1662
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृत्रहन्) विघ्नहन्तः (इन्द्र) जीवात्मन् ! (सोमः) ज्ञानरसः आनन्दरसश्च (ते कुक्षये) तव उदराय, तव स्वात्मनोऽर्थे (अरम्) पर्याप्तम् (भवतु) जायताम्। अपि च (इन्दवः) क्लेदकाः ते ज्ञानरसाः आनन्दरसाश्च (धामभ्यः) अन्येभ्योऽपि धामभ्यः (अरम्) पर्याप्तं जायन्ताम् ॥३॥
Essence
स्वयं गुरुजनेभ्यो ज्ञानं गृहीत्वा जगदीश्वरोपासनया चानन्दं सम्प्राप्य तज्ज्ञानस्य तदानन्दस्य च प्रसारो जने जने, गृहे गृहे, समाजे समाजे विधेयः ॥३॥
Subject
अथ पुनरपि जीवात्मानमेवाह।