Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1661

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वि꣣व्य꣡क्थ꣢ महि꣣ना꣡ वृ꣢षन्भ꣣क्ष꣡ꣳ सोम꣢꣯स्य जागृवे । य꣡ इ꣢न्द्र ज꣣ठ꣡रे꣢षु ते ॥१६६१॥

वि꣣व्य꣡क्थ꣢ । म꣣हिना꣢ । वृ꣣षन् । भक्ष꣢म् । सो꣡म꣢꣯स्य । जा꣣गृवे । यः꣢ । इ꣣न्द्र । जठ꣡रे꣢षु । ते꣣ ॥१६६१॥

Mantra without Swara
विव्यक्थ महिना वृषन्भक्षꣳ सोमस्य जागृवे । य इन्द्र जठरेषु ते ॥

विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे । यः । इन्द्र । जठरेषु । ते ॥१६६१॥

Samveda - Mantra Number : 1661
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृषन्) बलवान् (जागृवे) जागरूक (इन्द्र) जीवात्मन् ! त्वम्(महिना) स्वमहिम्ना (सोमस्य) ज्ञानरसस्य आनन्दरसस्य च (भक्षम्) भागम्। [भजतेर्वा बाहुलकादौणादिकः स प्रत्ययः।] (विव्यक्थ) विस्तारय। [व्यचतेर्लोडर्थे लिट्।] (यः) भागः (ते) तव (जठरेषु) उदरेषु, अभ्यन्तरे इति यावत्, वर्तते इति शेषः ॥२॥
Essence
मनुष्यो यदपि ज्ञानमानन्दं वा सञ्चिनोति तस्य विस्तारस्तेन सततं विधेयः ॥२॥
Subject
अथजीवात्मानमुद्बोधयति।