Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1660

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ त्वा꣢ विश꣣न्त्वि꣡न्द꣢वः समु꣣द्र꣡मि꣢व꣣ सि꣡न्ध꣢वः । न꣢꣫ त्वामि꣣न्द्रा꣡ति꣢ रिच्यते ॥१६६०॥

आ꣢ । त्वा꣣ । विशन्तु । इ꣡न्द꣢꣯वः । स꣣मुद्र꣢म् । स꣣म् । उद्र꣢म् । इ꣢व । सि꣡न्ध꣢꣯वः । न । त्वाम् । इ꣣न्द्र । अ꣡ति꣢꣯ । रि꣣च्यते ॥१६६०॥

Mantra without Swara
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्राति रिच्यते ॥

आ । त्वा । विशन्तु । इन्दवः । समुद्रम् । सम् । उद्रम् । इव । सिन्धवः । न । त्वाम् । इन्द्र । अति । रिच्यते ॥१६६०॥

Samveda - Mantra Number : 1660
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जीवात्मन् ! (इन्दवः) आचार्यसकाशात् प्राप्ता ज्ञानरसाः, परमात्मसकाशात् प्राप्ता आनन्दरसाश्च (त्वा) त्वाम् (आ विशन्तु) प्रविशन्तु, (समुद्रम् इव) उदधिं यथा (सिन्धवः) नद्यः प्रविशन्ति तद्वत्। देहे कश्चिदपि मनःप्राणादिः (त्वाम्) जीवात्मानम् (न अतिरिच्यते) न अतिशेते—त्वत्तोऽधिको न भवतीत्यर्थः ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
जीवात्मा खलु देहस्य सम्राड् वर्तते। मनोबुद्धिप्राणमस्तिष्कहृदयादीनि सर्वाण्यपि तस्यैवानुशासने वर्तन्ते। स यदि जागरूकोऽस्ति तर्हि सर्वोऽभ्युदयो सर्वं निःश्रेयसं वा तेन प्राप्तुं शक्यते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १९७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।