Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1659

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पा꣡ता꣢ वृत्र꣣हा꣢ सु꣣त꣡मा घा꣢꣯ गम꣣न्ना꣢꣫रे अ꣣स्म꣢त् । नि꣡ य꣢मते श꣣त꣡मू꣢तिः ॥१६५९॥

पा꣡ता꣢ । वृ꣣त्र꣢हा । वृ꣣त्र । हा꣢ । सु꣣त꣢म् । आ । घ꣣ । गमत् । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢त् । नि । य꣣मते । शत꣡मू꣢तिः । श꣣त꣢म् । ऊ꣣तिः ॥१६५९॥

Mantra without Swara
पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् । नि यमते शतमूतिः ॥

पाता । वृत्रहा । वृत्र । हा । सुतम् । आ । घ । गमत् । न । आरे । अस्मत् । नि । यमते । शतमूतिः । शतम् । ऊतिः ॥१६५९॥

Samveda - Mantra Number : 1659
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृत्रहा) विघ्नहन्ता, (सुतम्) अभिषुतं श्रद्धाभक्तिरसम्(पाता) पानकर्ता इन्द्रो जगदीश्वरः (घ) नूनम् (आ गमत्) आगच्छतु। (अस्मत् आरे) अस्मत्तः दूरे (न) मा तिष्ठतु।(शतमूतिः) अनन्तरक्षः सः (नि यमते) अस्मान् नियच्छतु, नियन्त्रणपूर्वकं चालयतु ॥३॥
Essence
जगदीश्वरं स्वसमीपेऽनुभूय स्तोता जीवो नियमपूर्वकमेव जीवनं यापयति ॥३॥
Subject
अथ जगदीश्वरमाह्वयति।