Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1653

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ओ꣢ज꣣स्त꣡द꣢स्य तित्विष उ꣣भे꣢꣫ यत्स꣣म꣡व꣢र्तयत् । इ꣢न्द्र꣣श्च꣡र्मे꣢व꣣ रो꣡द꣢सी ॥१६५३॥

ओ꣡जः꣢꣯ । तत् । अ꣣स्य । तित्विषे । उभे꣡इति꣢ । यत् । स꣣म꣡व꣢र्तयत् । स꣣म् । अ꣡व꣢꣯र्तयत् । इ꣡न्द्रः꣢꣯ । च꣡र्म꣢꣯ । इ꣢व । रो꣡द꣢꣯सी꣢इ꣡ति꣢ ॥१६५३॥

Mantra without Swara
ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । इन्द्रश्चर्मेव रोदसी ॥

ओजः । तत् । अस्य । तित्विषे । उभेइति । यत् । समवर्तयत् । सम् । अवर्तयत् । इन्द्रः । चर्म । इव । रोदसीइति ॥१६५३॥

Samveda - Mantra Number : 1653
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत् इन्द्रः) परमेश्वरः (चर्म इव) सन्ध्यावन्दनार्थम् मृगचर्म यथा कश्चित् प्रसारयति तथा (उभे रोदसी) उभे द्यावापृथिव्यौ इव अपरापरारूपे उभे अपि विद्ये (समवर्तयत्) विस्तृणाति (तत् अस्य) परमेश्वरस्य (ओजः) ज्ञानबलम् (तित्विषे) प्रदीप्तं भवति ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
महतीयं जगदीश्वरस्य कृपा यत् स सत्पात्रभूतानामृषीणां हृदये पराविद्याया अपराविद्यायाश्च ज्ञानं द्यावापृथिवीवत् विस्तृणाति ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके १८२ क्रमाङ्के परमात्मविषये व्याख्यातपूर्वा। अत्र पुनर्व्याख्यायते।