Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1652

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वि꣡ चि꣢द्वृ꣣त्र꣢स्य꣣ दो꣡ध꣢तः꣣ शि꣡रो꣢ बिभेद वृ꣣ष्णि꣡ना꣢ । व꣡ज्रे꣢ण श꣣त꣡प꣢र्वणा ॥१६५२॥

वि꣢ । चि꣣त् । वृत्र꣡स्य꣢ । दो꣡ध꣢꣯तः । शि꣡रः꣢꣯ । बि꣣भेद । वृष्णि꣡ना꣢ । व꣡ज्रे꣢꣯ण । श꣣त꣡प꣢र्वणा । श꣣त꣢ । प꣣र्वणा ॥१६५२॥

Mantra without Swara
वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना । वज्रेण शतपर्वणा ॥

वि । चित् । वृत्रस्य । दोधतः । शिरः । बिभेद । वृष्णिना । वज्रेण । शतपर्वणा । शत । पर्वणा ॥१६५२॥

Samveda - Mantra Number : 1652
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृष्णिना) गोलिकावर्षकेण भुशुण्ड्यायुधेन, (शतपर्वणा)शतकीलकेन (वज्रेण) गदाऽऽयुधेन च यथा इन्द्रः शूरो राजा सेनापतिर्वा (दोधतः) सज्जनान् कम्पयतः (वृत्रस्य) दुष्टशत्रोः (शिरः) मूर्धानम् (वि बिभेद) चित् विभिनत्ति खलु, तथैव (वृष्णिना) सुखवर्षकेण (शतपर्वणा) बहुपालनकर्त्रा(वज्रेण) दण्डसामर्थ्येन (इद्रः) वीरः परमेश्वरः (दोधतः) कम्पयतः (वृत्रस्य) पापस्य (शिरः) शिर उपलक्षितं प्रभावम्(वि बिभेद चित्) विभिनत्ति एव ॥२॥
Essence
परमात्मोपासनया सर्वे विघ्नाः सर्वाणि पापानि च तथैव नश्यन्ति यथा राज्ञः सेनापतेर्वा शस्त्रास्त्रैः सर्वे शत्रवः ॥२॥
Subject
अथ नृपतेः सेनापतेर्वा दृष्टान्तेन परमात्मनो वीरकर्मोच्यते।