Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1651

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢ । स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥१६५१॥

स꣢म् । अ꣣स्य । मन्य꣡वे꣢ । वि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । न꣣मन्त । कृष्ट꣡यः꣢ । स꣣मुद्रा꣡य꣢ । स꣣म् । उद्रा꣡य꣢ । इ꣣व । सि꣡न्ध꣢꣯वः ॥१६५१॥

Mantra without Swara
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥

सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय । सम् । उद्राय । इव । सिन्धवः ॥१६५१॥

Samveda - Mantra Number : 1651
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
यथा (अस्य) इन्द्रस्य नृपतेः (मन्यवे) क्रोधाय (विश्वाः) सर्वाः (कृष्टयः) कर्षयित्र्यः (विशः) शत्रुसेनाः (सं नमन्त) संनमन्ति, तथैव (अस्य) इन्द्रस्य परमात्मनः (मन्यवे) तेजसे (विश्वाः) सर्वाः (कृष्टयः) योगाभ्यासरूपं कृषिकर्म कुर्वाणाः (विशः) प्रजाः (सं नमन्त) नम्रा भवन्ति, (समुद्राय इव) समुद्रं प्राप्तुं यथा (सिन्धवः) नद्यः (संनमन्त) नम्राः निम्नाभिमुखाः जायन्ते ॥१॥ अत्रोपमा श्लेषश्चालङ्कारः ॥१॥
Essence
वरिष्ठः किल जगदीशस्य प्रतापः प्रभावो महिमा च यस्य पुरतः सर्वेऽपि नतमस्तका जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १३७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र नृपतिदृष्टान्तेन परमात्मविषयमाह।