Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 165

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣द꣡ꣳ ह्यन्वोज꣢꣯सा सु꣣त꣡ꣳ रा꣢धानां पते । पि꣢बा꣣ त्वा꣣३꣱स्य꣡ गि꣢र्वणः ॥१६५॥

इ꣣द꣢म् । हि । अ꣡नु꣢꣯ । ओ꣡ज꣢꣯सा । सु꣣त꣢म् । रा꣣धानाम् । पते । पि꣡ब꣢꣯ । तु । अ꣣स्य꣢ । गि꣢र्वणः । गिः । वनः । ॥१६५॥

Mantra without Swara
इदꣳ ह्यन्वोजसा सुतꣳ राधानां पते । पिबा त्वा३स्य गिर्वणः ॥

इदम् । हि । अनु । ओजसा । सुतम् । राधानाम् । पते । पिब । तु । अस्य । गिर्वणः । गिः । वनः । ॥१६५॥

Samveda - Mantra Number : 165
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (राधानां पते) आध्यात्मिकानां भौतिकानां च धनानां स्वामिन् इन्द्र परमात्मन् ! राधः इति धननाम। निघं० २।१०। अयं शब्दः सकारान्तोऽकारान्तश्चोभयथापि वेदे प्रयुज्यते। तथापि प्रायशः सकारान्त एव। (इदं हि) एतत् किल भक्तिरसात्मकं कर्मरसात्मकं च सोमतत्त्वम् (ओजसा) सम्पूर्णबलेन सम्पूर्णवेगेन च (अनु सुतम्) अस्माभिरनुक्रमेण अभिषुतम् अस्ति। हे (गिर्वणः२) गीर्भिः संभजनीय याचनीय वा देव ! गिर्वणाः देवो भवति, गीर्भिरेनं वनयन्ति। निरु० ६।१४। गिर् पूर्वात् वन संभक्तौ, वनु याचने वा धातोरौणादिकोऽसुन्। त्वम् (तु३) क्षिप्रम् (अस्य४) इदं भक्तिकर्मरसरूपं वस्तु (पिब) स्वीकुरु। संहितायां द्व्यचोऽस्तिङः। अ० ६।३।१३५ इति दीर्घः ॥१॥५
Essence
हे परमेश्वर ! त्वमाध्यात्मिकीनां भौतिकीनां च सर्वासाम् ऋद्धिसिद्धीनां परमोऽधिपतिर्विद्यसे। त्वं केनापि वस्तुना न हीयसे, तथाप्यस्मान् प्रति प्रेमातिरेककारणादेव त्वस्मदीयं प्रेमोपहारं स्वीकरोषि। हे देव ! त्वत्कृतेऽस्माभिः सम्पूर्णेन बलेन भक्तिरसः कर्मरसश्च सज्जीकृतोऽस्ति। तं स्वीकृत्यास्माननुगृहाण ॥१॥
Subject
अथेन्द्रः प्रार्थ्यते।
Footnote
१. ऋ० ३।५१।१०, साम० ७३७। २. गिर्वणः। गिरः स्तुतयः, ताभिर्यो वन्यते सम्भज्यते स गिर्वणाः। तस्य सम्बोधनं गिर्वणः। सम्भजनीय—इति वि०। गीर्भिर्वेदानां विदुषां च वाणीभिर्वन्यते संसेव्यते यस्तत्संबुद्धौ। इति ऋ० १।१०।१२ भाष्ये, यो गीर्भिर्वन्यते याच्यते तत्संबुद्धौ इति च ऋ० ३।४१।४ भाष्ये द०। ३. तु क्षिप्रम्—इति वि०, भ०, सा०। ४. षष्ठीनिर्देशात् एकदेशमिति वाक्यशेषः—इति वि०। ५. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजपक्षे व्याख्यातः।