Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1648

1875 Mantra
Devata- अग्निः Rishi- विरूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
न꣡म꣢स्ते अग्न꣣ ओ꣡ज꣢से गृ꣣ण꣡न्ति꣢ देव कृ꣣ष्ट꣡यः꣢ । अ꣡मै꣢र꣣मि꣡त्र꣢मर्दय ॥१६४८॥

न꣡मः꣢꣯ । ते꣣ । अग्ने । ओ꣡ज꣢꣯से । गृ꣣ण꣡न्ति꣢ । दे꣣व । कृष्ट꣡यः꣢ । अ꣡मैः꣢꣯ । अ꣣मि꣡त्र꣢म् । अ꣣ । मि꣡त्र꣢꣯म् । अ꣣र्द꣡य ॥१६४८॥

Mantra without Swara
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैरमित्रमर्दय ॥

नमः । ते । अग्ने । ओजसे । गृणन्ति । देव । कृष्टयः । अमैः । अमित्रम् । अ । मित्रम् । अर्दय ॥१६४८॥

Samveda - Mantra Number : 1648
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) दानादिगुणयुक्त (अग्ने) अग्रणीः परमात्मन् नृपते योगिराड् वा ! (ते ओजसे) तव बलाय प्रतापाय च(कृष्टयः) मनुष्याः (नमः गृणन्ति) नमः उच्चारयन्ति, तव बलं प्रतापं च प्रशंसन्तीत्यर्थः। त्वम् (अमैः) स्वकीयैः बलैः(अमित्रम्) योगमार्गे जीवनमार्गे वा समागच्छन्तं शत्रुम्(अर्दय) पीडय ॥१॥
Essence
पदे पदेऽस्माकं निर्धारिते लक्ष्ये ये विघ्ना आगच्छन्ति ते परमेश्वरस्य प्रेरणया नृपतेः साहाय्येन योगप्रशिक्षकस्य च समुचितेन प्रशिक्षणेन सरलतयैव दूरीकर्तुं शक्यन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ११ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र परमात्मा नृपतिः योगिराट् च सम्बोध्यते।