Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1647

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त्वां꣡ विष्णु꣢꣯र्बृ꣣ह꣡न्क्षयो꣢꣯ मि꣣त्रो꣡ गृ꣢णाति꣣ व꣡रु꣢णः । त्वा꣡ꣳ शर्धो꣢꣯ मद꣣त्य꣢नु꣣ मा꣡रु꣢तम् ॥१६४७॥

त्वा꣢म् । वि꣡ष्णुः꣢꣯ । बृ꣡ह꣢न् । क्ष꣡यः꣢꣯ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । गृ꣣णाति । व꣡रु꣢꣯णः । त्वाम् । श꣡र्धः꣢꣯ । म꣣दति । अ꣡नु꣢꣯ । मा꣡रु꣢꣯तम् ॥१६४७॥

Mantra without Swara
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः । त्वाꣳ शर्धो मदत्यनु मारुतम् ॥

त्वाम् । विष्णुः । बृहन् । क्षयः । मित्रः । मि । त्रः । गृणाति । वरुणः । त्वाम् । शर्धः । मदति । अनु । मारुतम् ॥१६४७॥

Samveda - Mantra Number : 1647
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ! हे परमसम्राट् जगदीश ! (त्वाम्) महाबलम् (विष्णुः) रश्मिभिर्व्यापनशीलः सूर्यः (बृहन् क्षयः) विस्तीर्णम् अन्तरिक्षरूपं गृहम्, (मित्रः) वायुः। [अयं वै वायुर्मित्रो योऽयं पवते। श० ६।५।७।१४।] (वरुणः) अग्निश्च [यो वै वरुणः सोऽग्निः। श० ५।२।४।१३।] (गृणाति) स्तौति। (मारुतं शर्धः) मरुतां वृष्टिपवनानां सैन्यमपि (त्वाम् अनु) तवैवानुकूल्येन(मदति) हृष्यति ॥३॥
Essence
जगति ये केऽपि पदार्थाः स्वं स्वं कार्यं कुर्वन्ति ते सर्वेऽपि परमेश्वरादेव शक्तिं लभन्ते ॥३॥ अस्मिन् खण्डे जीवात्मनः परमात्मनश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ पुनः स एव विषय उच्यते।