Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1646

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त꣢व꣣ द्यौ꣡रि꣢न्द्र꣣ पौ꣡ꣳस्यं꣢ पृथि꣣वी꣡ व꣢र्धति꣣ श्र꣡वः꣢ । त्वा꣢꣫मापः꣣ प꣡र्व꣢तासश्च हिन्विरे ॥१६४६॥

त꣡व꣢꣯ । द्यौः । इ꣣न्द्र । पौ꣡ꣳस्य꣢꣯म् । पृ꣣थिवी꣢ । वर्ध꣣ति । श्र꣡वः । त्वाम् । आ꣡पः꣢꣯ । प꣡र्व꣢꣯तासः । च । हिन्विरे ॥१६४६॥

Mantra without Swara
तव द्यौरिन्द्र पौꣳस्यं पृथिवी वर्धति श्रवः । त्वामापः पर्वतासश्च हिन्विरे ॥

तव । द्यौः । इन्द्र । पौꣳस्यम् । पृथिवी । वर्धति । श्रवः । त्वाम् । आपः । पर्वतासः । च । हिन्विरे ॥१६४६॥

Samveda - Mantra Number : 1646
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश्वर ! (तव) त्वदीयम् (पौंस्यम्) पुंसि भवं पौंस्यं बलम् (श्रवः) यशश्च (द्यौः) द्युलोकः (पृथिवी) भूलोकश्च(वर्धति) वर्धयति, गायति। (त्वाम् आपः) नद्यः (पर्वतासः च) गिरयश्च (हिन्विरे) यशोगानेन वर्धयन्ति। [हि गतौ वृद्धौ च, स्वादिः] ॥२॥
Essence
आदित्यः पर्जन्यो विद्युद् वायुः पृथिवी नद्यः पर्वताः समुद्रा वीरुधः ऋतवस्तारावलिर्मनुष्याः पशवः पक्षिणः सर्वे परमेश्वरस्यैव महिमानं गायन्ति, गायं गायं च न श्राम्यन्ति ॥२॥
Subject
अथ जगदीश्वरस्य महिमा वर्ण्यते।