Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1645

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त꣢व꣣ त्य꣡दि꣢न्द्रि꣣यं꣢ बृ꣣ह꣢꣫त्तव꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । व꣡ज्र꣢ꣳ शिशाति धि꣣ष꣢णा꣣ व꣡रे꣢ण्यम् ॥१६४५॥

त꣡व꣢꣯ । त्यत् । इ꣣न्द्रिय꣢म् । बृ꣣ह꣢त् । त꣡व꣢꣯ । द꣡क्ष꣢꣯म् । उ꣡त꣢ । क्र꣡तु꣢꣯म् । व꣡ज्र꣢꣯म् । शि꣣शाति । धिष꣡णा꣢ । व꣡रे꣢꣯ण्यम् ॥१६४५॥

Mantra without Swara
तव त्यदिन्द्रियं बृहत्तव दक्षमुत क्रतुम् । वज्रꣳ शिशाति धिषणा वरेण्यम् ॥

तव । त्यत् । इन्द्रियम् । बृहत् । तव । दक्षम् । उत । क्रतुम् । वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥१६४५॥

Samveda - Mantra Number : 1645
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ! हे परमैश्वर्यवन् विघ्नविदारक शूर परमात्मन् ! (तव धिषणा) त्वदीया बुद्धिः, (तव) त्वदीयम् (त्यत्) तत् प्रसिद्धम्(वरेण्यम्) श्रेष्ठं वरणीयं वा (बृहत्) महत् (इन्द्रियम्) इन्द्रत्वम् परमैश्वर्यवत्त्वम्, (दक्षम्) बलम्, (क्रतुम्) प्रज्ञानं, कर्म, संकल्पं,यज्ञं वा (उत) अपि च (वज्रम्) न्यायवज्रम्, दण्डसामर्थ्यं वा(शिशाति) सदैव तीक्ष्णीकरोति। [शिशीते निश्यति इति निरुक्तम् ४।१८] ॥१॥
Essence
परमात्मनः परमैश्वर्यं बलं प्रज्ञानं कर्म सत्संकल्पाः यज्ञभावना न्यायप्रदानं दण्डसामर्थ्यं च न कदापि हसन्ति, प्रत्युत सदावृद्धानि सदातीक्ष्णानि च तिष्ठन्ति, येन सर्वे जना लाभान्विता जायन्ते ॥१॥
Subject
तत्रादौ जगदीश्वरस्य गुणान् वर्णयति।