Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1644

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
शि꣡क्षा꣢ ण इ꣣न्द्र꣢꣫ राय आ पु꣣रु꣢ वि꣣द्वा꣡ꣳ ऋ꣡चीषम । अ꣡वा꣢ नः꣣ पा꣢र्ये꣣ ध꣡ने꣢ ॥१६४४॥

शि꣡क्ष꣢꣯ । नः꣣ । इन्द्र । रायः꣢ । आ । पु꣣रु꣢ । वि꣣द्वा꣢न् । ऋ꣣चीषम । अ꣡व꣢꣯ । नः꣣ । पा꣡र्ये꣢꣯ । ध꣡ने꣢꣯ ॥१६४४॥

Mantra without Swara
शिक्षा ण इन्द्र राय आ पुरु विद्वाꣳ ऋचीषम । अवा नः पार्ये धने ॥

शिक्ष । नः । इन्द्र । रायः । आ । पुरु । विद्वान् । ऋचीषम । अव । नः । पार्ये । धने ॥१६४४॥

Samveda - Mantra Number : 1644
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (ऋचीषम) ऋगीशानां विदुषां मानयितः [चस्य कुत्वाभावः शकारस्य च मूर्धन्यादेशश्छान्दसः।] (इन्द्र) परमैश्वर्यवन् परमात्मन् जीवात्मन् वा ! (पुरु) बहु (विद्वान्) विज्ञानवान् त्वम् (नः) अस्मान् (रायः) भौतिकानि आध्यात्मिकानि चैश्वर्याणि (आ शिक्ष) आनीय प्रदेहि।[शिक्षतिर्दानकर्मा। निघं० ३।२०। ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः। संहितायां ‘णः’ इत्यत्र ‘पूर्वपदात्’ अ० ८।३।१०६ इति नकारस्य णत्वम्।] (पार्ये) मार्गस्य पारं गत्वा प्रापणीये (धने) ऐश्वर्ये निमित्ते (नः) अस्मान् (अव) रक्ष।[अत्रापि पूर्वोक्तनियमेन संहितायां दीर्घत्वम्] ॥३॥
Essence
परमात्मनः प्रेरणया जीवात्मनश्च पुरुषार्थेन मनुष्या निर्धारितस्याध्वनः पारं गत्वा महैश्वर्याणि प्राप्तुं शक्नुवन्ति ॥३॥
Subject
अथ परमात्मजीवात्मानौ प्रार्थयते।