Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1643

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यु꣣ध्म꣡ꣳ सन्त꣢꣯मन꣣र्वा꣡ण꣢ꣳ सोम꣣पा꣡मन꣢꣯पच्युतम् । न꣡र꣢मवा꣣र्य꣡क्र꣢तुम् ॥१६४३॥

यु꣣ध्म꣢म् । स꣡न्त꣢꣯म् । अ꣣नर्वा꣡ण꣢म् । अ꣣न् । अर्वा꣡ण꣢म् । सो꣣मपा꣢म् । सो꣣म । पा꣢म् । अ꣡न꣢꣯पच्युतम् । अन् । अ꣣पच्युतम् । न꣡र꣢꣯म् । अ꣣वार्य꣡क्र꣢तुम् । अ꣡वा꣢꣯र्य । क्र꣣तुम् ॥१६४३॥

Mantra without Swara
युध्मꣳ सन्तमनर्वाणꣳ सोमपामनपच्युतम् । नरमवार्यक्रतुम् ॥

युध्मम् । सन्तम् । अनर्वाणम् । अन् । अर्वाणम् । सोमपाम् । सोम । पाम् । अनपच्युतम् । अन् । अपच्युतम् । नरम् । अवार्यक्रतुम् । अवार्य । क्रतुम् ॥१६४३॥

Samveda - Mantra Number : 1643
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(युध्मम् सन्तम्) योद्धारं सन्तम् (अनर्वाणम्) अप्रत्यृतमन्यस्मिन्। [युध्मः, युध सम्प्रहारे, ‘इषियुधीन्धिदसिश्याधूसूभ्यो मक्’, उ० १।१४५ इति मक् प्रत्ययः। अनर्वाऽप्रत्यृतोऽन्यस्मिन्। निरु० ६।२३।] (सोमपाम्) वीररसस्य पातारम्, (अनपच्युतम्) विघ्नेष्वविचलितम्, (नरम्) नेतारम्, (अवार्यक्रतुम्) न वारयितुं शक्यः क्रतुः संकल्पः कर्म वा यस्य तम् परमात्मानं जीवात्मानं वा, हे मानव ! त्वम् (आच्यावयसि) आवर्जय, स्वाभिमुखं कुरु। ‘आच्यावयसि’ इति पूर्वमन्त्रादाकृष्यते ॥२॥ युध्मं योद्धारं सन्तम् अनर्वाणम् अनाक्रान्तारम् इति विरोधः, भाष्योक्तदिशा च परिहारः। अतो विरोधाभासोऽलङ्कारः ॥२॥
Essence
जगदीश्वरोऽधार्मिकैः परपीडकैर्जनैर्युद्धमिव कृत्वा तान् पराजयते दण्डयति च। देहधारी जीवोऽपि वीरतया दुर्विचारैर्दुष्टजनैश्च युद्ध्वाऽदम्येन संकल्पबलेन सर्वान् शत्रून् विजित्योन्नतेश्चरमं सोपानमधिरोढुं क्षमते ॥२॥
Subject
अथ परमात्मजीवात्मनोर्गुणान् वर्णयति।