Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1642

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्य꣡मु꣢ वः सत्रा꣣सा꣢हं꣣ वि꣡श्वा꣢सु गी꣣र्ष्वा꣡य꣢तम् । आ꣡ च्या꣢वयस्यू꣣त꣡ये꣢ ॥१६४२॥

त्य꣢म् । उ꣣ । वः । सत्रासा꣡ह꣢म् । स꣣त्रा । सा꣡ह꣢म् । वि꣡श्वा꣢꣯सु । गी꣣र्षु꣢ । आ꣡य꣢꣯तम् । आ । य꣣तम् । आ । च्या꣣वयसि । ऊत꣡ये꣢ ॥१६४२॥

Mantra without Swara
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतये ॥

त्यम् । उ । वः । सत्रासाहम् । सत्रा । साहम् । विश्वासु । गीर्षु । आयतम् । आ । यतम् । आ । च्यावयसि । ऊतये ॥१६४२॥

Samveda - Mantra Number : 1642
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे भ्रातः ! त्वम् (त्यम् उ) तमेव (सत्रासाहम्) युगपत् सर्वेषां विघ्नानां पराजेतारम् (विश्वासु गीर्षु) सर्वेषु वाङ्मयेषु(आयतम्) व्याप्तम् परमात्मानं जीवात्मानं वा (वः) वृणु।[वृञ् वरणे धातोर्लोडर्थे लुङि च्लेर्लुकि अडागमाभावे रूपम्। ‘तिङ्ङतिङः’ अ० ८।१।२८ इति निघातः।] (ऊतये) रक्षायै (आच्यावयसि) आवर्जय च। [च्युङ् गतौ, णिजन्तस्य लेटि मध्यमैकवचने रूपम्] ॥१॥
Essence
जगदीश्वरः सर्वासु वेदवाक्षु व्याप्तः, ‘यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति—(ऋ० १।१६४।३९)’ इति श्रुतेः। जीवात्मानं चापि वेदादिवाचः पदे पदे वर्णयन्ति। परमात्मनः शरणं गत्वा, स्वान्तरात्मानं च समुद्बोध्य जना रक्षिताः समुन्नताश्च भवितुं पारयन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १७० क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमात्मजीवात्मनोर्विषयमाह।