Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1641

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡द्गा आ꣢꣯ज꣣द꣡ङ्गि꣢रोभ्य आ꣣वि꣢ष्कृ꣣ण्व꣡न्गुहा꣢꣯ स꣣तीः꣢ । अ꣣र्वा꣡ञ्चं꣢ नुनुदे व꣣ल꣢म् ॥१६४१॥

उत् । गाः । आ꣣जत् । अ꣡ङ्गि꣢꣯रोभ्यः । आ꣣विः꣢ । आ꣣ । विः꣢ । कृ꣣ण्व꣢न् । गु꣡हा꣢꣯ । स꣣तीः꣢ । अ꣢र्वा꣡ञ्च꣢म् । नु꣣नुदे । वल꣢म् ॥१६४१॥

Mantra without Swara
उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । अर्वाञ्चं नुनुदे वलम् ॥

उत् । गाः । आजत् । अङ्गिरोभ्यः । आविः । आ । विः । कृण्वन् । गुहा । सतीः । अर्वाञ्चम् । नुनुदे । वलम् ॥१६४१॥

Samveda - Mantra Number : 1641
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) बलवान् जीवात्मा (अर्वाञ्चम्) स्वाभिमुखमागतम्(वलम्) पूर्वमन्त्रोक्तम् आवरकं विघ्नसमूहम् (नुनुदे) पराङ्नुदति, प्रक्षिपति। (गुहा सतीः) गुहायां विद्यमानाः, प्रच्छन्नाः। [गुहा इत्यत्र ‘सुपां सुलुक्०’। अ० ७।१।३९ इति सप्तम्या लुक्।] (गाः) अध्यात्मप्रकाशरश्मीन् (अङ्गिरोभ्यः) प्राणायामाभ्यासिभ्यः (उद् आजत्) उत्प्रापयति ॥३॥
Essence
यैर्विघ्नजालैः परिवृता योगाभ्यासिनो विवेकख्यातिप्रकाशं परमात्मप्रकाशं वा नाधिगन्तुं पारयन्ति तान् विघ्नान् प्रयत्नशीलो जीवात्मा परमात्मकृपया पराजित्य लक्ष्यं प्राप्तुं सफलो जायते ॥३॥
Subject
अथ पुनरपि स एव विषय उच्यते।