Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1640

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- गायत्री Swara- षड्जः
Mantra with Swara
व्या꣢३꣱न्त꣡रि꣢क्षमतिर꣣न्म꣢दे꣣ सो꣡म꣢स्य रोच꣣ना꣢ । इ꣢न्द्रो꣣ य꣡दभि꣢꣯नद्व꣣ल꣢म् ॥१६४०॥

वि । अ꣣न्त꣡रि꣢क्षम् । अ꣣तिरत् । म꣡दे꣢꣯ । सो꣡म꣢꣯स्य । रो꣣चना꣢ । इ꣡न्द्रः꣢꣯ । यत् । अ꣡भि꣢꣯नत् । व꣣ल꣢म् ॥१६४०॥

Mantra without Swara
व्या३न्तरिक्षमतिरन्मदे सोमस्य रोचना । इन्द्रो यदभिनद्वलम् ॥

वि । अन्तरिक्षम् । अतिरत् । मदे । सोमस्य । रोचना । इन्द्रः । यत् । अभिनत् । वलम् ॥१६४०॥

Samveda - Mantra Number : 1640
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) बलवान् जीवात्मा (सोमस्य) भक्तिरसस्य (मदे) उत्साहे (यत्) यदा (वलम्) आवरकं, लक्ष्यप्राप्तौ प्रतिबन्धकम् अविद्यास्मितारागद्वेषादिकं, कामक्रोधादिकं, व्याधिस्त्यानसंशय- प्रमादालस्यादिकं च विघ्नसमूहम् (अभिनत्) भिनत्ति तदा (अन्तरिक्षम्) मध्यस्थं मनोमयं विज्ञानमयं च आकाशम्, तत्र च(रोचना) रोचनानि तेजोमयानि सद्भावरूपाणि नक्षत्राणि(वि-अतिरत्) विस्तारयति ॥२॥
Essence
परमात्मनः सकाशात् प्राप्तेन बलेनैव मनुष्यस्यात्मा पदे पदे समागतान् विघ्नान् विध्वस्य लक्ष्यं प्राप्तुं क्षमते ॥२॥
Subject
अथ पुनरपि जीवात्मविषयमाह।