Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 164

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢꣫ त्वेता꣣ नि꣡ षी꣢द꣣ते꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । स꣡खा꣢यः꣣ स्तो꣡म꣢वाहसः ॥१६४॥

आ꣢ । तु । आ । इ꣣त । नि꣢ । सी꣣दत । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः ॥१६४॥

Mantra without Swara
आ त्वेता नि षीदतेन्द्रमभि प्र गायत । सखायः स्तोमवाहसः ॥

आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत । सखायः । स । खायः । स्तोमवाहसः । स्तोम । वाहसः ॥१६४॥

Samveda - Mantra Number : 164
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (स्तोमवाहसः) स्तोमान् स्तोत्राणि वहन्ति उपास्यं प्रति नयन्ति, यद्वा स्तोमं जनसमूहं नयन्ति नेतृत्वेन उत्कर्षं प्रापयन्ति ते। स्तोमपूर्वाद् वह प्रापणे धातोः कर्मण्यण्। जसि आज्जसेरसुक् अ० ७।१।५० इत्यसुगागमः। (सखायः) सुहृदः ! यूयम् (तु२) क्षिप्रम् (आ३ इत) आगच्छत। संहितायां द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः। (आ निषीदत४) आगत्य च उपासनाकर्मणि राष्ट्रोत्थानकर्मणि वा उपविशत, (इन्द्रम्) परमैश्वर्ययुक्तं दुःखविदारकं सुखप्रदं परमात्मानं राष्ट्रं वा (अभि) अभिलक्ष्य (प्रगायत) प्रकृष्टतये गीतानि गायत ॥१०॥
Essence
प्रजाजनैरुपासनागृहे समवेतैर्भूत्वा दुःखभञ्जकं सुखोत्पादकमिन्द्रं परमेश्वरं प्रति सामगीतानि गेयानि, राष्ट्रोत्थानाय च कृतसंकल्पैर्बद्धपरिकरैश्च भूत्वा राष्ट्रगीतानि गातव्यानि ॥१०॥ अत्रेन्द्रनाम्ना परमात्मगुणवर्णनपूर्वकं तं प्रति स्तुतिगीतानि गातुं भक्तिकर्मरसरूपं सोममर्पयितुं च प्रेरणात्, उपासकैश्च तस्याह्वानादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिर्वेद्या ॥१०॥ इति द्वितीये प्रपाठके द्वितीयार्धे द्वितीया दशतिः। इति द्वितीयाध्याये पञ्चमः खण्डः।
Subject
अथ स्तुतिगीतानि गातुं सखायो निमन्त्र्यन्ते।
Footnote
१. ऋ० १।५।१, अथ० २०।६८।११, साम० ७४०। २, ३. आ तु इति पादपूरणौ—इति वि०। तु क्षिप्रम्—इति भ०। तु शब्दः क्षिप्रार्थो निपातः—इति सा०। उपसर्गाभ्यां च आख्यातावृत्तिं सूचयति। हे प्रस्तोत्रादयः आगच्छत, आगच्छत इति प्रत्येकं स्तोतॄनाह्वयति—इति भ०। आ तु आ इत इति द्वाभ्याम् आङ्भ्यां मन्त्रे तु इत शब्दोऽभ्यसनीयः—इति सा०। ४. सर्वे यूयं मिलित्वा परस्परं प्रीत्या मोक्षशिल्पविद्यासम्पादनोद्योगे आ निषीदत। इति ऋ० १।५।१ भाष्ये द०।