Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1639

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣣ज्ञ꣡ इन्द्र꣢꣯मवर्धय꣣द्य꣢꣯द्भूमिं꣣ व्य꣡व꣢र्तयत् । च꣣क्राण꣡ ओ꣢प꣣शं꣢ दि꣣वि꣢ ॥१६३९॥

य꣣ज्ञः꣢ । इ꣡न्द्र꣢꣯म् । अ꣣वर्धयत् । य꣢त् । भू꣡मि꣢꣯म् । व्य꣡व꣢꣯र्तयत् । वि । अ꣡व꣢꣯र्तयत् । च꣣क्राणः꣢ । ओ꣣पश꣢म् । ओ꣣प । श꣢म् । दि꣣वि꣢ ॥१६३९॥

Mantra without Swara
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवि ॥

यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । व्यवर्तयत् । वि । अवर्तयत् । चक्राणः । ओपशम् । ओप । शम् । दिवि ॥१६३९॥

Samveda - Mantra Number : 1639
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यज्ञः) परमात्संगमरूपो यागः (इन्द्रम्) जीवात्मानम्(अवर्धयत्) वर्धयति, शक्तिमन्तं करोति, (यत्) यस्मात् सः(दिवि) द्योतनात्मके परमात्मनि (ओपशम्) निवासम्(चक्राणः) कुर्वाणः (भूमिम्) भूम्युपलक्षितां पार्थिवां तनूम्(व्यवर्तयत्) विवर्तयति, सम्यक् सञ्चालयति ॥१॥
Essence
परमात्मनः सकाशादेव बलं प्राप्य जीवात्मा देहराज्यस्य मस्तिष्कसंस्थानं रक्तसंस्थानं पाचनसंस्थानं श्वाससंस्थानं ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि सर्वमपि सम्यक् सञ्चालयितुं क्षमते, अतः स तेन कदापि न विस्मरणीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १२१ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।