Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1638

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣡नु꣢ ते꣣ शु꣡ष्मं꣢ तु꣣र꣡य꣢न्तमीयतुः क्षो꣣णी꣢꣫ शिशुं꣣ न꣢ मा꣣त꣡रा꣢ । वि꣡श्वा꣢स्ते꣣ स्पृ꣡धः꣢ श्नथयन्त म꣣न्य꣡वे꣢ वृ꣣त्रं꣡ यदि꣢न्द्र꣣ तू꣡र्व꣢सि ॥१६३८॥

अ꣡नु꣢꣯ । ते । शु꣡ष्म꣢꣯म् । तु꣣र꣡य꣢न्तम् । ई꣣यतुः । क्षोणी꣡इति꣢ । शि꣡शु꣢꣯म् । न । मा꣣त꣡रा꣢ । वि꣡श्वाः꣢꣯ । ते꣣ । स्पृ꣡धः꣢꣯ । श्न꣣थयन्त । मन्य꣡वे꣢꣯ । वृ꣣त्र꣢म् । यत् । इ꣣न्द्र । तू꣡र्व꣢꣯सि ॥१६३८॥

Mantra without Swara
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥

अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणीइति । शिशुम् । न । मातरा । विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि ॥१६३८॥

Samveda - Mantra Number : 1638
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) शूर परमात्मन् जीवात्मन् वा ! (ते) तव (तुरयन्तम्)त्वरां कुर्वन्तम् (शुष्मम्) बलम् (क्षोणी) द्यावापृथिव्यौ मनोबुद्धी वा (अनु ईयतुः) अनुसरतः। कथमिव ? (तुरयन्तम्) वेगेन गच्छन्तम् (शिशुम् न) बालकम् यथा (मातरा)मातापितरौ। यथा शिशोरनुसरणेन मातापितरौ कमप्यमन्दमानन्दमनुभवतस्तथैव परमात्मबलानुधावनेन द्यावापृथिव्यौ जीवात्मबलानुधावनेन च मनोबुद्धी विशिष्टां शक्तिं प्राप्नुत इत्यर्थः। हे (इन्द्र) परमात्मन् जीवात्मन् वा ! (यत्) यदा, त्वम् (वृत्रम्) कामादिशत्रुम् विघ्नसमूहं वा(तूर्वसि) हंसि, [तूर्वी हिंसार्थः भ्वादिः।] तदा (ते) तव (मन्यवे) तेजसे, तेजःसम्मुखमित्यर्थः। [मन्युः मन्यतेः दीप्तिकर्मणः। निरु० १०।२९।] (विश्वाः) सर्वाः (स्पृधः) शत्रुसेनाः विघ्नसेनाः वा (श्नथयन्त) हतप्राया दुर्बला भवन्ति। [श्नथतिः हन्तिकर्मा। निघं० २।१९] ॥२॥२
Essence
द्यावापृथिव्यादिकं सर्वं परमात्मबलेनैव बलवद् दृश्यते, तथैव देहस्थं मनोबुद्ध्यादिकं जीवात्मबलेन बलभद् भवति। मनसि परमात्मचिन्तनेन स्वान्तरात्मनश्चोद्बोधनेन सर्वे विघ्ना बाह्याभ्यन्तराः शत्रवश्च समूलमुन्मूलयितुं शक्यन्ते ॥२॥ अस्मिन् खण्डे उपास्योपासकयोर्जीवात्मनः प्राणस्य परमात्मन आचार्यस्य नृपतेश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि परमात्मानं जीवात्मानं चाह।