Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1637

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
त्व꣡मि꣢न्द्र꣣ प्र꣡तू꣢र्तिष्व꣣भि꣡ विश्वा꣢꣯ असि꣣ स्पृ꣡धः꣢ । अ꣣शस्तिहा꣡ ज꣢नि꣣ता꣡ वृ꣢त्र꣣तू꣡र꣢सि꣣ त्वं꣡ तू꣢र्य तरुष्य꣣तः꣢ ॥१६३७॥

त्व꣢म् । इ꣣न्द्र । प्र꣡तू꣢꣯र्तिषु । प्र । तू꣣र्तिषु । अभि꣢ । वि꣡श्वाः꣢ । अ꣣सि । स्पृ꣡धः꣢꣯ । अ꣣शस्तिहा꣢ । अ꣣शस्ति । हा꣢ । ज꣣निता꣢ । वृ꣣त्रतूः꣢ । वृ꣣त्र । तूः꣢ । अ꣣सि । त्व꣡म् । तू꣣र्य । तरुष्यतः꣢ ॥१६३७॥

Mantra without Swara
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥

त्वम् । इन्द्र । प्रतूर्तिषु । प्र । तूर्तिषु । अभि । विश्वाः । असि । स्पृधः । अशस्तिहा । अशस्ति । हा । जनिता । वृत्रतूः । वृत्र । तूः । असि । त्वम् । तूर्य । तरुष्यतः ॥१६३७॥

Samveda - Mantra Number : 1637
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विघ्नविदारक परमात्मन् जीवात्मन् वा ! त्वम्(प्रतूर्तिषु) सत्वरेषु देवासुरसंग्रामेषु (विश्वाः) समस्ताः (स्पृधः) प्रतिस्पर्धिनीः कामक्रोधादीनां सेनाः (अभि असि) अभिभवसि, पराजयसे। त्वम् (अशस्तिहा) अप्रशस्तीनां हन्ता, (जनिता) प्रशस्तिहेतूनां सद्गुणकर्मणां जनयिता, (वृत्रतूः) वृत्राणि पापानि तूर्वति हिनस्ति यस्तथाविधश्च (असि) वर्तसे। (त्वम्) परमात्मा जीवात्मा वा (तरुष्यतः) हिंसकान्।[तरुष्यतिः हन्तिकर्मा। निरु० ५।२।] (तूर्य) विनाशय ॥१॥२
Essence
परमात्मानं प्रार्थयित्वा स्वान्तरात्मानं च प्रोद्बोध्य मनुष्यः सर्वानप्यान्तरान् बाह्यांश्च शत्रून् विजित्य स्वोन्नतिमार्गं निष्कण्टकं कर्तुमर्हति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३११ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमात्मा जीवात्मा च सम्बोध्यते।