Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1636

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ नो꣢ दू꣣रा꣢च्चा꣣सा꣢च्च꣣ नि꣡ मर्त्या꣢दघा꣣योः꣢ । पा꣣हि꣢꣫ सद꣣मि꣢द्वि꣣श्वा꣡युः꣢ ॥१६३६॥

सः꣢ । नः꣣ । दूरा꣢त् । दुः꣣ । आ꣢त् । च꣣ । आसा꣢त् । च꣣ । नि꣢ । म꣡र्त्या꣢꣯त् । अ꣣घायोः꣢ । पा꣣हि꣢ । स꣡द꣢꣯म् । इत् । वि꣣श्वा꣡युः꣢ । वि꣣श्व꣢ । आयुः꣢ ॥१६३६॥

Mantra without Swara
स नो दूराच्चासाच्च नि मर्त्यादघायोः । पाहि सदमिद्विश्वायुः ॥

सः । नः । दूरात् । दुः । आत् । च । आसात् । च । नि । मर्त्यात् । अघायोः । पाहि । सदम् । इत् । विश्वायुः । विश्व । आयुः ॥१६३६॥

Samveda - Mantra Number : 1636
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे परमात्मन् आचार्य वा ! (विश्वायुः) विश्वं सम्पूर्णं शतवार्षिकं आयुर्यस्मात् तथाविधः (सः) असौ त्वम् (दूरात् च) विप्रकृष्टदेशाच्च, (आसात् च) समीपाच्च (अघायोः) अघं पापं परेषामिच्छतीति अघायुः तस्मात्। [अघशब्दात् ‘छन्दसि परेच्छायां क्यच उपसंख्यानम्’। वा० ३।१।८ इति परेच्छायां क्यच्। ‘अश्वाघस्यात्’ अ० ७।४।३७ इत्यघस्याकारान्तादेशः।] (मर्त्यात्) मनुष्यात् (सदम् इत्) सदैव (नः) अस्मान् (निपाहि) निरन्तरं रक्ष ॥३॥२
Essence
परमेशप्रेरणया सद्गुरूणामुपदेशेन च सर्वे जनाः पापात्मनां कुसंगतिं विहाय सत्सङ्गं कृत्वा नैतिकनियमान् स्वास्थ्यनियमांश्च पालयन्तः सदाचारिणो दीर्घायुषश्च भवेयुः ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।