Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1634

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢श्वं꣣ न꣢ त्वा꣣ वा꣡र꣢वन्तं व꣣न्द꣡ध्या꣢ अ꣣ग्निं꣡ नमो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तमध्व꣣रा꣡णा꣢म् ॥१६३४॥

अ꣡श्व꣢꣯म् । न । त्वा꣣ । वा꣡र꣢꣯वन्तम् । व꣣न्द꣡ध्यै꣢ । अ꣣ग्नि꣢म् । न꣡मो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तम् । स꣣म् । रा꣡ज꣢꣯न्तम् । अ꣣ध्वरा꣡णा꣢म् ॥१६३४॥

Mantra without Swara
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥

अश्वम् । न । त्वा । वारवन्तम् । वन्दध्यै । अग्निम् । नमोभिः । सम्राजन्तम् । सम् । राजन्तम् । अध्वराणाम् ॥१६३४॥

Samveda - Mantra Number : 1634
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वारवन्तम्) मालिन्यनिवारक रश्मिकेशयुक्तम् (अश्वं न) आदित्यमिव (वारवन्तम्) दोषनिवारणसामर्थ्ययुक्तम्, (अध्वराणाम्) सृष्ट्युत्पत्तिस्थित्यादियज्ञानां शिक्षायज्ञानां वा (राजन्तम्) सम्राजम् (अग्निं त्वाम्) नायकं परमात्मानम् आचार्यं वा त्वाम् (नमोभिः) नमस्कारैः (वन्दध्यै) वन्दितुम्, आह्वयामः इति शेषः। [अत्र ‘तुमर्थेसे०’ अ० ३।४।९ इति तुमर्थे कध्यै प्रत्ययः] ॥१॥२ अत्र श्लिष्टोपमालङ्कारः ॥१॥
Essence
यथा सूर्यः स्वरश्मिजालेन भूमिष्ठं मलादिकमपनयति तथा परमेश्वर आचार्यश्च स्वशोधकसामर्थ्येन जनानां पापदुर्गुणदुर्व्यसनदुःखादिकं दूरीकुरुतः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १७ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र युगपत् परमात्माऽऽचार्यश्च प्रोच्यते।