Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1633

1875 Mantra
Devata- पवमानः सोमः Rishi- रेभसूनू काश्यपौ Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
तं꣡ गाथ꣢꣯या पुरा꣣ण्या꣡ पु꣢ना꣣न꣢म꣣꣬भ्य꣢꣯नूषत । उ꣣तो꣡ कृ꣢पन्त धी꣣त꣡यो꣢ दे꣣वा꣢नां꣣ ना꣢म꣣ बि꣡भ्र꣢तीः ॥१६३३॥

तम् । गा꣡थ꣢꣯या । पु꣡राण्या꣢ । पु꣣नान꣢म् । अ꣣भि꣢ । अ꣣नूषत । उत꣢ । उ꣣ । कृपन्त । धीत꣡यः꣢ । दे꣣वा꣡ना꣢म् । ना꣡म꣢꣯ । बि꣡भ्र꣢꣯तीः ॥१६३३॥

Mantra without Swara
तं गाथया पुराण्या पुनानमभ्यनूषत । उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥

तम् । गाथया । पुराण्या । पुनानम् । अभि । अनूषत । उत । उ । कृपन्त । धीतयः । देवानाम् । नाम । बिभ्रतीः ॥१६३३॥

Samveda - Mantra Number : 1633
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पुनानम्) पवित्रयन्तम् (तम्) सोमं शुभगुणप्रेरकं परमात्मानम्, स्तोतारः (पुराण्या) सनातन्या (गाथया) वेदवाचा। [गाथेति वाङ्नाम। निघं० १।११।] (अभ्यनूषत)अभिष्टुवन्ति। (उत उ) अपि च (नाम) परमात्मानं प्रति नमनम् (बिभ्रतीः) धारयन्त्यः (देवानाम्) विदुषाम् (धीतयः)प्रज्ञाः क्रियाश्च (कृपन्त) शक्तिमत्यो जायन्ते। [कृपू सामर्थ्ये, भ्वादिः। ‘कृपो रो लः’ अ० ८।२।१८ इति न प्रवर्तते, छन्दसि सर्वेषां विधीनां वैकल्पिकत्वात्] ॥३॥
Essence
परमात्मस्तुत्या स्तोतॄणां वाचः प्रज्ञाः क्रियाश्च बलवत्यो भूत्वा जीवने तान् सफलयन्ति ॥३॥
Subject
अथ परमेशस्तुतिं तत्फलं चाह।