Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1631

1875 Mantra
Devata- पवमानः सोमः Rishi- रेभसूनू काश्यपौ Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣡ध꣢ क्ष꣣पा꣡ परि꣢꣯ष्कृतो꣣ वा꣡जा꣢ꣳ अ꣣भि꣡ प्र गा꣢꣯हसे । य꣡दी꣢ वि꣣व꣡स्व꣢तो꣣ धि꣢यो꣣ ह꣡रि꣢ꣳ हि꣣न्व꣢न्ति꣣ या꣡त꣢वे ॥१६३१॥

अ꣡ध꣢꣯ । क्ष꣣पा꣢ । प꣡रि꣢꣯ष्कृतः । प꣡रि꣢꣯ । कृ꣣तः । वा꣡जा꣢꣯न् । अ꣡भि꣢ । प्र । गा꣣हसे । य꣡दि꣢꣯ । वि꣣व꣡स्व꣢तः । वि꣣ । व꣡स्व꣢꣯तः । धि꣡यः꣢꣯ । ह꣡रि꣢꣯म् । हि꣣न्व꣡न्ति꣢ । या꣡त꣢꣯वे ॥१६३१॥

Mantra without Swara
अध क्षपा परिष्कृतो वाजाꣳ अभि प्र गाहसे । यदी विवस्वतो धियो हरिꣳ हिन्वन्ति यातवे ॥

अध । क्षपा । परिष्कृतः । परि । कृतः । वाजान् । अभि । प्र । गाहसे । यदि । विवस्वतः । वि । वस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे ॥१६३१॥

Samveda - Mantra Number : 1631
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! (यदि) यदा (विवस्वतः) तमोगुणान् विवासनवतः परमेश्वरस्य (धियः) प्रज्ञाः (हरिम्) मनुष्यं त्वाम्। [हरयः इति मनुष्यनामसु पठितम्। निघं० २।३।] (यातवे) यातुम्, पुरुषार्थं कर्तुम् (हिन्वन्ति) प्रेरयन्ति, तदा (क्षपा) क्षपया, परमेश्वरस्य दोषक्षपणशक्त्या (परिष्कृतः) संस्कृतः त्वम् (वाजान्) विविधानि ऐश्वर्याणि (अभि प्रगाहसे) अभ्यालोडयसि, तेषु ऐश्वर्येषु रमसे इत्यर्थः। [गाहू विलोडने, भ्वादिः] ॥१॥
Essence
आत्मशुद्ध्या पुरुषार्थेनैव च मनुष्या विविधाः सम्पदः प्राप्तुं क्षमन्ते ॥१॥
Subject
अथ परमात्मजीवात्मविषयमाह।