Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1630

1875 Mantra
Devata- इन्द्रवायू Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
वा꣢य꣣वि꣡न्द्र꣢श्च शु꣣ष्मि꣡णा꣢ स꣣र꣡थ꣢ꣳ शवसस्पती । नि꣣यु꣡त्व꣢न्ता न ऊ꣣त꣢य꣣ आ꣡ या꣢तं꣣ सो꣡म꣢पीतये ॥१६३०॥

वा꣡यो꣢꣯ । इ꣡न्द्रः꣢꣯ । च꣣ । शुष्मि꣡णा꣢ । स꣣र꣡थ꣢म् । स꣣ । र꣡थ꣢꣯म् । श꣣वसः । पतीइ꣡ति꣢ । नि꣣यु꣡त्व꣢न्ता । नि꣣ । यु꣡त्व꣢꣯न्ता । नः꣣ । ऊत꣡ये꣢ । आ । या꣣तम् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥१६३०॥

Mantra without Swara
वायविन्द्रश्च शुष्मिणा सरथꣳ शवसस्पती । नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥

वायो । इन्द्रः । च । शुष्मिणा । सरथम् । स । रथम् । शवसः । पतीइति । नियुत्वन्ता । नि । युत्वन्ता । नः । ऊतये । आ । यातम् । सोमपीतये । सोम । पीतये ॥१६३०॥

Samveda - Mantra Number : 1630
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वायो) प्राण ! त्वम् (इन्द्रः च) जीवात्मा च (शुष्मिणा) शुष्मिणौ बलवन्तौ, (शवसः पती) बलस्य पालकौ, (नियुत्वन्ता) सदा नियुक्तौ सन्तौ (नः ऊतये) अस्माकं रक्षणाय (सरथम्) एकमेव देहरथम् आरुह्य (सोमपीतये) शान्तरसपानाय (आयातम्) आगच्छतम् ॥३॥२
Essence
जीवात्मा प्राणेनैव सहचरितो देहमागच्छति, तेनैव सहचरितश्च जीवने सर्वाणि कार्याणि साध्नुवन् योगाभ्यासेन शान्तिं प्राप्नोति ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।