Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 163

1875 Mantra
Devata- इन्द्रः Rishi- शुनः शेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यो꣡गे꣢योगे त꣣व꣡स्त꣢रं꣣ वा꣡जे꣢वाजे हवामहे । स꣡खा꣢य꣣ इ꣡न्द्र꣢मू꣣त꣡ये꣢ ॥१६३॥

यो꣡गे꣢꣯योगे । यो꣡गे꣢꣯ । यो꣣गे । तव꣡स्त꣢रम् । वा꣡जे꣢꣯वाजे । वा꣡जे꣢꣯ । वा꣣जे । हवामहे । स꣡खा꣢꣯यः । स । खा꣣यः । इ꣡न्द्र꣢म् । ऊ꣣त꣡ये꣢ ॥१६३॥

Mantra without Swara
योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये ॥

योगेयोगे । योगे । योगे । तवस्तरम् । वाजेवाजे । वाजे । वाजे । हवामहे । सखायः । स । खायः । इन्द्रम् । ऊतये ॥१६३॥

Samveda - Mantra Number : 163
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (योगेयोगे) योगस्य विभिन्नस्तरेषु यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसविकल्पक-निर्विकल्पकसमाधिषु (तवस्तरम्) तौति वर्द्धते, हिनस्ति विघ्नान्, तावयति वर्द्धयति च साधकं यः स तवाः, अतिशयेन तवाः तवस्तरः तम्। तु गतिवृद्धिहिंसासु सौत्रो धातुः। सर्वधातुभ्योऽसुन् उ० ४।१९–० इत्यसुन्। ततोऽतिशायने तरप्। (इन्द्रम्) सिद्धिप्रदं परमेश्वरम् (सखायः) सुहृदो वयम् (वाजे वाजे) सर्वस्मिन्नान्तरिके देवासुरसंग्रामे। वाज इति संग्रामनाम। निघं० २।१७। (ऊतये) रक्षायै विजयप्राप्तये वा (हवामहे) आह्वयेम। अत्र ह्वेञ् धातोर्लेटि लेटोऽडाटौ अ० ३।४।९४ इत्याडागमे कृते बहुलं छन्दसि अ० ६।१।३४ इति सम्प्रसारणम् ॥ अथ द्वितीयः—सेनाध्यक्षपरः। (योगेयोगे) अप्राप्तस्य प्राप्तिर्योगस्तस्मिन्, योगे योगे प्रतिराष्ट्रोत्कर्षनिमित्तम् (तवस्तरम्) अतिशयेन गतिमन्तं क्रियाशीलं बलवृद्धं विघ्नविनाशकं च (इन्द्रम्) दुष्टशत्रुविदारकं विजयप्रदं धार्मिकं वीरं सेनाध्यक्षम् (सखायः) परस्परं सखिभावेन निवसन्तः प्रजाजनाः वयम् (वाजे वाजे) युद्धे युद्धे (ऊतये) रक्षणाय विजयप्राप्तये वा (हवामहे) आह्वयेम, उद्बोधयेम ॥९॥२ अत्र श्लेषालंकारः। योगे योगे, वाजे वाजे इत्यावृत्तौ च छेकानुप्रासः ॥९॥
Essence
योगमभ्यस्यतो जनस्य पुरतो व्याधिस्त्यानसंशयप्रमादालस्यादयो बहवो विघ्ना उपतिष्ठन्ति। ईश्वरप्रणिधानेन प्रणवजपेन वा ते निवारयितुं शक्यन्ते३। अतो यदा यदाऽस्माकमन्तःकरणे देवासुरसंघर्षः प्रवर्तते तदा तदा वयं विघ्नान् पराजेतुं योगसिद्धिं च प्राप्तुं बलवृद्धं परमेश्वरमाह्वयामः। तथैव राष्ट्रेऽपि यदा यदा शत्रूणामाक्रमणं जायते तदा तदा तेषां विजयाय राष्ट्रस्य च वयं शूरं सेनापतिमुद्बोधयामो येन राष्ट्रं निःसपत्नमुत्कर्षारूढं च भवेत् ॥९॥
Subject
अथ स्वात्मरक्षणायेन्द्र आहूयते।
Footnote
१. ऋ० १।३०।७, य० ११।१४, अथ० २०।२६।१, साम० ७४३। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमात्मपक्षे सेनाध्यक्षपक्षे च यजुर्भाष्ये च राजपक्षे व्याख्यातवान्। ३. द्रष्टव्यम्—योग० १।२७-३२।