Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1628

1875 Mantra
Devata- वायुः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
वा꣡यो꣢ शु꣣क्रो꣡ अ꣢यामि ते꣣ म꣢ध्वो꣣ अ꣢ग्रं꣣ दि꣡वि꣢ष्टिषु । आ꣡ या꣢हि꣣ सो꣡म꣢पीतये स्पा꣣र्हो꣡ दे꣢व नि꣣यु꣡त्व꣢ता ॥१६२८॥

वा꣡यो꣢꣯ । शु꣣क्रः꣢ । अ꣣यामि । ते । म꣡ध्वः꣢꣯ । अ꣡ग्र꣢꣯म् । दि꣡वि꣢꣯ष्टिषु । आ । या꣣हि । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । स्पार्हः꣢ । दे꣣व । नियु꣡त्व꣢ता । नि꣣ । यु꣡त्व꣢꣯ता ॥१६२८॥

Mantra without Swara
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥

वायो । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु । आ । याहि । सोमपीतये । सोम । पीतये । स्पार्हः । देव । नियुत्वता । नि । युत्वता ॥१६२८॥

Samveda - Mantra Number : 1628
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वायो) सर्वान्तर्यामिन् जगदीश ! (दिविष्टिषु) विवेकप्रकाशप्राप्तिषु जातासु। [दिविष्टिषु दिव एषणेषु। निरु० ६।२२।] (शुक्रः) पवित्रः अहम् (ते) तव (मध्वः) आनन्दरसस्य (अग्रम्) श्रेष्ठभागम् (अयामि) प्राप्नोमि। हे (देव) मोदमय ! (स्पार्हः) स्पृहणीयः त्वम् (सोमपीतये) मम श्रद्धारसस्य पानाय (नियुत्वता) नियुक्तेन रथेन इव (आयाहि) आगच्छ ॥१॥२ ‘नियुत्वता’ इत्यत्र लुप्तोपमालङ्कारः ॥१॥
Essence
यथोपासकः परमेश्वरस्यानन्दरसानां पिपासुर्भवति तथा परमेश्वरोऽप्युपासकस्य भक्तिरसानां पिपासुर्जायते ॥१॥
Subject
तत्रादावुपास्योपासकयोः पारस्परिकं सम्बन्धमाह।