Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1627

1875 Mantra
Devata- विष्णुः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
व꣡ष꣢ट् ते विष्णवा꣣स꣡ आ कृ꣢꣯णोमि꣣ त꣡न्मे꣢ जुषस्व शिपिविष्ट ह꣣व्य꣢म् । व꣡र्ध꣢न्तु त्वा सु꣣ष्टु꣢त꣣यो गि꣡रो꣢ मे यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१६२७॥

व꣡ष꣢꣯ट् । ते꣣ । विष्णो । आसः꣢ । आ । कृ꣣णोमि । त꣢त् । मे꣣ । जुषस्व । शिपिविष्ट । शिपि । विष्ट । हव्य꣢म् । व꣡र्ध꣢꣯न्तु । त्वा꣣ । सुष्टुत꣡यः꣢ । सु꣣ । स्तुत꣡यः꣢ । गि꣡रः꣢꣯ । मे꣣ । यूय꣢म् । पा꣣त । स्व꣣स्ति꣡भिः꣢ । सु । अस्ति꣡भिः꣢ । स꣡दा꣢꣯ । नः꣣ ॥१६२७॥

Mantra without Swara
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥

वषट् । ते । विष्णो । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिविष्ट । शिपि । विष्ट । हव्यम् । वर्धन्तु । त्वा । सुष्टुतयः । सु । स्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः ॥१६२७॥

Samveda - Mantra Number : 1627
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विष्णो) सर्वान्तर्यामिन् जगदीश ! अहम् (आसः) आस्यात्(ते) तुभ्यम् (वषट्) स्तुतिम् (आकृणोमि) आकरोमि। हे(शिपिविष्ट) तेजोभिरावृत परमेश ! (तत् मे हव्यम्) तद् मम समर्पणम्, त्वम् (जुषस्व) प्रीत्या स्वीकुरु। (मे) मम (सुष्टुतयः)शोभनस्तुतिकाः (गिरः) वाचः (त्वा वर्धन्तु) त्वन्महिमानं वर्धयन्तु, प्रचारयन्तु। हे विष्णो जगदीश्वर ! (यूयम् स्वस्तिभिः)कल्याणपरम्पराभिः (नः) अस्मान् (सदा) सर्वदा (पात) रक्षत ॥३॥
Essence
जने जने जगदीशस्य महिम्नः प्रचारेण सर्वे धार्मिका भूत्वा स्वस्य समाजस्य च जीवनमुन्नयन्तु ॥३॥ अस्मिन् खण्डे जगदीश्वरस्याचार्यस्योपास्योपासकसम्बन्धस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति।
Subject
अथ पुनरपि तमेव विषयमाह।