Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1625

1875 Mantra
Devata- विष्णुः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
कि꣡मित्ते꣢꣯ विष्णो परि꣣च꣢क्षि꣣ ना꣢म꣣ प्र꣡ यद्व꣢꣯व꣣क्षे꣡ शि꣢पिवि꣣ष्टो꣡ अ꣢स्मि । मा꣡ वर्पो꣢꣯ अ꣣स्म꣡दप꣢꣯ गूह ए꣣त꣢꣫द्यद꣣न्य꣡रू꣢पः समि꣣थे꣢ ब꣣भू꣡थ꣢ ॥१६२५॥

कि꣢म् । इत् । ते꣣ । विष्णो । परिच꣡क्षि꣢ । प꣣रि । च꣡क्षि꣢꣯ । ना꣡म꣢꣯ । प्र । यत् । व꣡वक्षे꣢꣯ । शि꣡पिविष्टः꣢ । शि꣢पि । विष्टः꣢ । अ꣣स्मि । मा꣡ । व꣡र्पः꣢꣯ । अ꣣स्म꣢त् । अ꣡प꣢꣯ । गू꣣हः । एत꣢त् । यत् । अ꣣न्य꣡रू꣢पः । अ꣣न्य꣢ । रू꣣पः । समिथे꣢ । स꣣म् । इथे꣢ । ब꣣भू꣡थ꣢ ॥१६२५॥

Mantra without Swara
किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥

किम् । इत् । ते । विष्णो । परिचक्षि । परि । चक्षि । नाम । प्र । यत् । ववक्षे । शिपिविष्टः । शिपि । विष्टः । अस्मि । मा । वर्पः । अस्मत् । अप । गूहः । एतत् । यत् । अन्यरूपः । अन्य । रूपः । समिथे । सम् । इथे । बभूथ ॥१६२५॥

Samveda - Mantra Number : 1625
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विष्णो) सर्वव्यापक जगदीश ! [यो वेवेष्टि व्याप्नोति चराचरं जगत् स विष्णुः।] (किम् इत् ते) किम् एतदेव तव (परिचक्षि) परिख्यापनीयम् (नाम) स्वरूपम् अस्ति, (यत् प्र ववक्षे) प्र ब्रूषे (शिपिविष्टः) रश्मिभिरावृतः, तेजस्वीत्यर्थः (अस्मि) भवामि इति। तदतिरिक्तमपि त्वदीयं स्वरूपं वर्तत इत्याह (एतद्-वर्पः) इदं रूपम्, (अस्मत्) अस्मत्सकाशात् (मा अप गूहः) न संवृणु (यत् समिथे) उपासनायज्ञे। [समिथे इति संग्रामनामसु पठितम्। निघं० २।१७। संग्रामवाचिनः शब्दा यज्ञवाचिनोऽपि दृश्यन्ते।] (अन्यरूपः) जगत्प्रपञ्चाधिष्ठिताद् रूपाद् भिन्नरूपः (बभूथ) भवसि। [तथा चोक्तं पुरुषसूक्ते त्रि॒पादूर्ध्व उदै॒त् पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ (ऋ० १०।९०।४) इति] ॥२॥ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—[शिपिविष्टो विष्णुरिति विष्मोर्द्वे नामनी भवतः। कुत्सितार्थीयं पूर्वं भवतीत्यौपमन्यवः। किं ते विष्णोऽप्रख्यातमेतद् भवत्यप्रख्यापनीयं यन्नः प्रब्रूषे शेप इव निर्वेष्टितोऽस्मीत्यप्रतिपन्नरश्मिः। अपि वा प्रशंसानामेवाभिप्रेतं स्यात्। किं ते विष्णो प्रख्यातमेतद् भवति प्रख्यापनीयं यदुत प्रब्रूषे शिविपिष्टोऽस्मीति प्रतिपन्नरश्मिः। शिपयोऽत्र रश्मय उच्यन्ते, तैराविष्टो भवति। मा वर्पो अस्मदपगूह एतत्, वर्प इति रूपनाम, वृणोतीति सतः। यदन्यरूपः समिथे सङ्ग्रामे भवसि संयतरश्मिः। निरु० ५।८] ॥
Essence
सूर्यादौ जगत्प्रपञ्चे परमात्मनो यत् तेजोमयं रूपं तत् सर्वेषां दृग्गोचरं जायते, परं तस्य जगत्प्रपञ्चातीतं यद् वास्तवं रूपं तद् योगिन एव साक्षात् कुर्वन्ति ॥१॥
Subject
अथ परमात्मस्वरूपमाह।