Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1624

1875 Mantra
Devata- अग्निः Rishi- शंयुर्बार्हस्पत्यः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
प꣡र्षि꣢ तो꣣कं꣡ तन꣢꣯यं प꣣र्तृ꣢भि꣢ष्ट्व꣡मद꣢꣯ब्धै꣣र꣡प्र꣢युत्वभिः । अ꣢ग्ने꣣ हे꣡डा꣢ꣳसि꣣ दै꣡व्या꣢ युयोधि꣣ नो꣡ऽदे꣢वानि꣣ ह्व꣡रा꣢ꣳसि च ॥१६२४॥

प꣡र्षि꣢꣯ । तो꣣क꣢म् । त꣡न꣢꣯यम् । प꣣र्तृ꣡भिः꣢ । त्वम् । अ꣡द꣢꣯ब्धैः । अ । द꣣ब्धैः । अ꣡प्र꣢꣯युत्वभिः । अ । प्र꣣युत्वभिः । अ꣡ग्ने꣢꣯ । हे꣡डा꣢꣯ꣳसि । दै꣢व्या꣢꣯ । यु꣣योधि । नः । अ꣡दे꣢꣯वानि । अ । दे꣣वानि । ह्व꣡रा꣢꣯ꣳसि । च꣣ ॥१६२४॥

Mantra without Swara
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । अग्ने हेडाꣳसि दैव्या युयोधि नोऽदेवानि ह्वराꣳसि च ॥

पर्षि । तोकम् । तनयम् । पर्तृभिः । त्वम् । अदब्धैः । अ । दब्धैः । अप्रयुत्वभिः । अ । प्रयुत्वभिः । अग्ने । हेडाꣳसि । दैव्या । युयोधि । नः । अदेवानि । अ । देवानि । ह्वराꣳसि । च ॥१६२४॥

Samveda - Mantra Number : 1624
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनेतः परमात्मन् आचार्य वा ! (त्वम् अदब्धैः) अबाधैः (अप्रयुत्वभिः) अस्मत्तोऽपृथग्भूतैः, (सदा) संनिहितैरित्यर्थः। [प्र यु मिश्रणामिश्रणयोः, क्वनिप् प्रयुत्वा। ततो नञ्समासः।] (पर्तृभिः) पालनपूरणप्रकारैः। [पॄ पालनपूरणयोः, ‘बहुलमन्यत्रापि’ उ० २।९६ इति तृच्।] (तोकं तनयम्) पुत्रं पौत्रं च (पर्षि) पालय, विद्यादिभिः पूरय (च)। (नः) अस्माकम्(दैव्या) दैव्यानि, देवेषु धार्मिकेषु विद्वत्सु प्रयुक्तानि (हेडांसि) अनादररूपान् अपराधान्। [हेडृ अनादरे, भ्वादिः, ‘सर्वधातुभ्योऽसुन्’ उ० ४।१९०। इत्यसुन्।] (अदेवानि च) अवाञ्छनीयानि च (ह्वरांसि) कुटिलानि कर्माणि (युयोधि) पृथक् कुरु ॥२॥२
Essence
परमात्मनः प्रेरणया गुरूणां च शिक्षया सर्वैर्जनैर्दुर्गुणदुर्व्यसनादीनि परिहर्तव्यानि सद्गुणाः सत्कर्माणि च प्राप्तव्यानि ॥२॥
Subject
अथ पुनरपि परमेश्वरमाचार्यं चाह।