Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1623

1875 Mantra
Devata- अग्निः Rishi- शंयुर्बार्हस्पत्यः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
त्वं꣡ न꣢श्चि꣣त्र꣢ ऊ꣣त्या꣢꣫ वसो꣣ रा꣡धा꣢ꣳसि चोदय । अ꣣स्य꣢ रा꣣य꣡स्त्वम꣢꣯ग्ने र꣣थी꣡र꣢सि वि꣣दा꣢ गा꣣धं꣢ तु꣣चे꣡ तु नः꣢꣯ ॥१६२३॥

त्व꣢म् । नः꣢ । चित्रः꣢ । ऊ꣣त्या꣢ । व꣡सो꣢꣯ । रा꣡धा꣢꣯ꣳसि । चो꣣दय । अस्य꣢ । रा꣣यः꣢ । त्वम् । अ꣣ग्ने । रथीः꣢ । अ꣣सि । विदाः꣢ । गा꣣ध꣢म् । तु꣣चे꣢ । तु । नः꣣ ॥१६२३॥

Mantra without Swara
त्वं नश्चित्र ऊत्या वसो राधाꣳसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥

त्वम् । नः । चित्रः । ऊत्या । वसो । राधाꣳसि । चोदय । अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः ॥१६२३॥

Samveda - Mantra Number : 1623
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वसो) निवासक परमेश्वर आचार्य वा ! (चित्रः) अद्भुतगुणः (त्वम् ऊत्या) रक्षया सार्धम् (नः) अस्मभ्यम्(राधांसि) विद्याधनानि सच्चारित्र्यादिधनानि अध्यात्मैश्वर्याणि च (चोदय) प्रेरय। हे (अग्ने) विद्वन् अग्रनायक तेजस्विन् परमेश्वर आचार्य वा ! (त्वम् अस्य) एतस्य (रायः) विद्यासदाचारादिधनस्य (रथीः) स्वामी (असि) विद्यसे। अतः(नः) अस्माकम् (तुचे) अपत्याय (तु) क्षिप्रम् (गाधम्) तलस्पर्शि पाण्डित्यम् (विदाः) लम्भय ॥१॥२
Essence
यथा जगदीश्वरः सर्वेषामात्मनि ज्ञानसद्गुणादिकं प्रेरयति तथैव विद्वांसो गुरुजना गृहस्थान्, सम्यगुपदिशन्तु, तेषां पुत्रपौत्रादींश्च गुरुकुले सर्वा विद्या अध्याप्य विदुषश्चरित्रवतश्च कुर्युः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४१ क्रमाङ्के व्याख्यातपूर्वा। अत्र परमेश्वर आचार्यश्च प्रार्थ्यते।