Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1622

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वृ꣡षा꣢ यू꣣थे꣢व꣣ व꣡ꣳस꣢गः कृ꣣ष्टी꣡रि꣢य꣣र्त्यो꣡ज꣢सा । ई꣡शा꣢नो꣣ अ꣡प्र꣢तिष्कुतः ॥१६२२॥

वृ꣡षा꣢꣯ । यू꣣था꣢ । इ꣣व । व꣡ꣳस꣢꣯गः । कृ꣣ष्टीः꣢ । इ꣣यर्ति । ओ꣡ज꣢꣯सा । ई꣡शा꣢꣯नः । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः ॥१६२२॥

Mantra without Swara
वृषा यूथेव वꣳसगः कृष्टीरियर्त्योजसा । ईशानो अप्रतिष्कुतः ॥

वृषा । यूथा । इव । वꣳसगः । कृष्टीः । इयर्ति । ओजसा । ईशानः । अप्रतिष्कुतः । अ । प्रतिष्कुतः ॥१६२२॥

Samveda - Mantra Number : 1622
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वंसगः२) वननीयगतिः, कमनीयगमनः (वृषा) वृषभः (यूथा इव) गोयूथानि इव (वृषा) शुभगुणवर्षणकर्ता (वंसगः३) वंसं धर्मसेविनं गच्छतीति तथाविधः (ईशानः) जगदीश्वरः (अप्रतिष्कुतः) केनापि अप्रतिरुद्धः सन् (ओजसा) बलेन (कृष्टीः) उपासकान् मनुष्यान् (इयर्ति) प्राप्नोति ॥३॥४ अत्र श्लिष्टोपमालङ्कारः ॥३॥
Essence
ये श्रद्धया परमेश्वरमुपासते परमेश्वरोऽपि तेषां धर्मात्मनां जनानां साहाय्यमवश्यं करोति तेभ्यो बलं च ददाति ॥३॥
Subject
अथ कीदृशः परमात्मा क इव कान् प्राप्नोतीत्याह।