Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1621

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ नो꣢ वृषन्न꣣मुं꣢ च꣣रु꣡ꣳ सत्रा꣢꣯दाव꣣न्न꣡पा꣢ वृधि । अ꣣स्म꣢भ्य꣣म꣡प्र꣢तिष्कुतः ॥१६२१॥

सः । नः꣣ । वृषन् । अमु꣢म् । च꣣रु꣢म् । स꣡त्रा꣢꣯दावन् । स꣡त्रा꣢꣯ । दा꣣वन् । अ꣡प꣢꣯ । वृ꣣धि । अस्म꣡भ्य꣢म् । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः ॥१६२१॥

Mantra without Swara
स नो वृषन्नमुं चरुꣳ सत्रादावन्नपा वृधि । अस्मभ्यमप्रतिष्कुतः ॥

सः । नः । वृषन् । अमुम् । चरुम् । सत्रादावन् । सत्रा । दावन् । अप । वृधि । अस्मभ्यम् । अप्रतिष्कुतः । अ । प्रतिष्कुतः ॥१६२१॥

Samveda - Mantra Number : 1621
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृषन्) सुखवर्षक, (सत्रादावन्२) युगपद् दानप्रद सत्यप्रेरक सृष्टियज्ञसम्पादक वा जगदीश्वर ! (अप्रतिष्कुतः) असञ्चलितः।[अप्रतिष्कुतः अप्रतिष्कृतोऽप्रतिस्खलितो वेति निरुक्तम् (६।१६)।] (सः) असौ त्वम् (अस्मभ्यम्) त्वदाज्ञायां पुरुषार्थे च वर्तमानेभ्यः उपासकेभ्यः (अमुं चरुम्) सूर्यप्रतिबन्धकं मेघमिव एतं मोक्षमार्गप्रतिबन्धकं कदाचारादिकम्। [चरुरिति मेघनाम। निघं० १।१०।] (अपावृधि) दूरीकुरु ॥२॥३
Essence
यथा सूर्यः स्वप्रकाशसञ्चारबाधकं मेघकपाटमपावृत्य भूमण्डलं प्रकाशयति तथैव जगदीश्वरोऽस्माकं मोक्षबाधकमविद्यादुष्कर्मादिक- मपसार्यास्मान् मोक्षं प्रापयति ॥२॥
Subject
अथ परमात्मानं प्रार्थयते।