Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1620

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रं꣢ वो वि꣣श्व꣢त꣣स्प꣢रि꣣ ह꣡वा꣢महे꣣ ज꣡ने꣢भ्यः । अ꣣स्मा꣡क꣢मस्तु꣣ के꣡व꣢लः ॥१६२०॥

इ꣡न्द्र꣢꣯म् । वः꣣ । विश्व꣡तः꣢ । प꣡रि꣢꣯ । ह꣡वा꣢꣯महे । ज꣡ने꣢꣯भ्यः । अ꣣स्मा꣡क꣢म् । अ꣣स्तु । के꣡व꣢꣯लः ॥१६२०॥

Mantra without Swara
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ॥

इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः । अस्माकम् । अस्तु । केवलः ॥१६२०॥

Samveda - Mantra Number : 1620
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 17; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (विश्वतः परि) सर्वेभ्यः उपरि वयम् (इन्द्रम्) विघ्नविदारकं परमैश्वर्यवन्तं परमात्मानम् (जनेभ्यः वः) प्रजाभ्यः युष्मभ्यम् (हवामहे) आह्वयामः। सः (अस्माकम्) स्तोतॄणाम्(केवलः) अद्वितीयः (सखा अस्तु) जायताम् ॥१॥२
Essence
कामं मातापितृनृपत्यादयोऽस्माकं सुखप्रदा भवनति, परं सदा सहायः सदाऽशरणशरणः सदा धैर्यप्रदः सखा तु जगदीश्वर एव ॥१॥
Subject
तत्रादाविन्द्रनाम्ना परमात्मविषयमाह।