Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 162

1875 Mantra
Devata- इन्द्रः Rishi- कुसीदी काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡ इ꣢न्द्र चम꣣से꣡ष्वा सोम꣢꣯श्च꣣मू꣡षु꣢ ते सु꣣तः꣢ । पि꣡बेद꣢꣯स्य꣣ त्व꣡मी꣢शिषे ॥१६२॥

यः꣢ । इ꣢न्द्र । चमसे꣡षु꣢ । आ । सो꣡मः꣢꣯ । च꣣मू꣡षु꣢ । ते꣣ । सुतः꣢ । पि꣡ब꣢꣯ । इत् । अ꣣स्य । त्व꣢म् । ई꣣शिषे ॥१६२॥

Mantra without Swara
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः । पिबेदस्य त्वमीशिषे ॥

यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः । पिब । इत् । अस्य । त्वम् । ईशिषे ॥१६२॥

Samveda - Mantra Number : 162
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मजीवात्मपरः। हे (इन्द्रः) दुःखविदारक सुखप्रदातः परमात्मन्, शक्तिशालिन् जीवात्मन् वा ! (यः) योऽयं पुरतः उपस्थितः (सोमः) भक्तिरसो ज्ञानकर्मरसो वा (चमसेषु) ज्ञानेन्द्रियकर्मेन्द्रियरूपेषु चमसपात्रेषु, (चमूषु) प्राणमनोबुद्धिरूपेषु अधिषवणफलकेषु च (आ सुतः) मया आ समन्तात् अभिषुतोऽस्ति, तम् (पिब इत्) अवश्यमास्वादय। (अस्य) भक्तिरसरूपस्य ज्ञानकर्मरूपस्य च सोमस्य (त्वम् ईशिषे) अधीश्वरोऽसि। अत्र अधीगर्थदयेषां कर्मणि अ० २।३।५२ इति कर्मणि षष्ठी ॥ अथ द्वितीयः—राजपरः। हे (इन्द्र) शत्रुदलनसमर्थ पराक्रमशालिन् राजन् ! (यः) योऽयम् (ते) तव (चमसेषु) मेघेषु, मेघवत् ज्ञानवर्षकेषु ब्राह्मणेषु। चमस इति मेघनाम। निघं० १।१०। (चमूषु) क्षत्रियसेनासु च (सोमः) क्रमशो ब्रह्मबलरूपः क्षत्रबलरूपश्च सोमरसः। सोमो वै ब्राह्मणः। तां० ब्रा० २३।१६।५, क्षत्रं सोमः। ऐ० ब्रा० २।३८। (आसुतः) अभिषुतोऽस्ति, तम् (पिब इत्) स्वाभ्यन्तरेऽपि अवश्यं गृहाण, त्वं स्वयमपि ब्रह्मक्षत्रबलयुक्तो भवेत्यर्थः। (अस्य) ब्रह्मक्षत्ररूपस्य सोमस्य (त्वम् ईशिषे) अधीश्वरो भव ॥८॥ अत्र श्लेषालङ्कारः ॥८॥
Essence
परमात्मा स्तोतॄणां भक्तिरूपं, जीवात्मा ज्ञानकर्मरूपं, राजा च ब्रह्मक्षत्ररूपं सोमरसं यदि गृह्णीयात्, तदा स्तोतॄणां जीवानां राष्ट्राणां च महत् कल्याणं जायेत ॥८॥
Subject
अथेन्द्रनाम्ना परमात्मा जीवात्मा राजा वा प्रोच्यते।
Footnote
१. ऋ० ८।८२।७।